________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नानार्थवर्गः ३] रत्नप्रभाव्याख्यासमेतः
२२७ 'कलापो भूषणे बहें तूणीरे संहतावपि । परिच्छदे परीवापः पर्युप्तौ सलिलस्थितौ ॥ १३५ ॥ गोधुग्गोष्ठपती गोपौ, हरविष्णू वृषाकपी। 'बाष्पमूष्माश्रु, 'कशिपु त्वन्नमाच्छादनं द्वयम् ॥ १३६ ॥ "तल्पं शय्याट्टदारेषु, 'स्तम्बेऽपि विटपोऽस्त्रियाम् । "प्राप्तरूपस्वरूपाभिरूपा बुधमनोज्ञयोः ॥ १३७ ॥ भेद्यलिङ्गा अमी, १°कूर्मी वीणाभेदश्च कच्छपी। [१'कुतपो मृगरोमोत्यपटे चाहोऽष्टमेंऽशके ]
(इति पान्ताः) १२रवणे पुंसि रेफः स्यात्कुत्सिते वाच्यलिङ्गकः ॥ १३८॥
( इति फान्ताः) ( १ ) भूषणे बर्हे तूणीरे संहतौ च कलापः । [ भूषण, बर्ह, तूणीर, संहति का नाम कलाप । ] ( २) परिच्छेदे पर्युप्तौ सलिलस्थितौ च परीवापः । [परिच्छेद, पर्युप्ति, सलिलस्थिति का नाम परीवाप । ] ( ३ ) गोपे गोष्ठपतौ च गोधुक् । [ गोप, गोष्ठपति का नाम गोधुक् । ] ( ४ ) शिवे विष्णौ च वृषाकपिः। [शिव, विष्णु का नाम वृषाकपि । ] ( ५ ) ऊष्मणि अश्रुणि च वाष्पम । [ऊष्मा, अश्रु का नाम वाष्प । ] ( ६ ) अन्ने आच्छादने च कशिपु, पुनपुंसकयोः । [ अन्न, आच्छादन का नाम कशिपु । ] ( ७ ) अट्टालिकायां शय्यायां दारेषु च तल्पम् । [ अट्टालिका, शय्या, दारा का नाम तल्प । ] ( ८ ) शास्त्रे विस्तारे विटपे च स्तम्बः । [ शास्त्र, विस्तार, विटप का नाम स्तम्ब । ] ( ९) बुधे मनोज्ञे च प्राप्तरूपः, स्वरूपः, अभिरूपः । अमी सर्वे भेद्यलिङ्गाः शब्दाः । [बुध, मनोज्ञ का नाम प्राप्तरूप, स्वरूप, अभिरूप । ] (१०) वीणाभेदे कच्छप्यां च कूर्मी । [ वीणाभेद, कच्छपी का नाम कूर्मी । ] ( ११ ) मृगरोमनिर्मितपटे दिवसस्याष्टमे भागे च कुतपः। [ मृगरोमनिर्मित पट ( पश्मीना ), दिन का आठवाँ भाग का नाम कुतप।]
न्ताः शब्दाः ।
(१२) कुत्सितादौ रेफः । स च वाच्यलिङ्गको भवति । [ कुत्सित, रवर्ण का नाम रेफ।]
इति फान्ताः शब्दाः ।
For Private and Personal Use Only