________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमरकोषः
[प्रथमकाण्डे 'वसुदेवोऽस्य जनकः स एवानकदुन्दुभिः ॥ २२ ॥ २बलभद्रः प्रलम्बघ्नो बलदेवोऽच्युताग्रजः। रेवतीरमणो रामः कामपालो हलायुधः ।। २३ ॥ नीलाम्बरो रौहिणेयस्तालाको 'मुसली हली। सङ्कर्षणः सीरपाणिः कालिन्दीभेदनो बलः ॥२४॥ मदनो मन्मथो मारः प्रद्युम्नो मीनकेतनः । कन्दर्पो दर्पकोऽनङ्गः कामः पञ्चशरः स्मरः ॥ २५ ॥ शम्बरारिमनसिजः कुसुमेषुरनन्यजः । पुष्पधन्वा रतिपतिर्मकरध्वज आत्मभूः ॥ २६ ॥ ब्रह्मसूविश्वकेतुः स्यादनिरुद्ध उषापतिः । "लक्ष्मीः पद्मालया पद्मा कमला श्रीहरिप्रिया ॥२७॥ [इन्दिरा लोकमाता मा क्षीरोदतनया रमा। भार्गवी लोकजननी क्षीरसागरकन्यका ॥] 'शङ्खो लक्ष्मीपतेः पाञ्चजन्यश्चक्र सुदर्शनः । 'कौमोदकी गदा खड्गो नन्दकः १°कौस्तुभो मणिः ॥२८॥ (१) द्वे नामनी वसुदेवस्य । [ वसुदेव के २ नाम । ] ( २ ) सप्तदश बलरामस्य नामनि । [ बलराम के १७ नाम । ] ( ३ ) कामदेवस्य एकविंशति नामानि । [ कामदेव के २१ नाम । ] ( ४ ) अनिरुद्धस्य नामद्वयम् । [ अनिरुद्ध के २ नाम । ] कामदेवस्य पञ्च बाणा:
उन्मादनस्तापनश्च शोषणस्तम्भनस्तथा ।
सम्मोहनश्च कामस्य पञ्च बाणाः प्रकीर्तिताः ।। कामदेव के बाणों के नाम-१. उन्मादन, २. तापन, ३. शोषण ४. स्तम्भन ५. सम्मोहन । (५ ) लक्ष्म्याश्चतुर्दश नामानि । [ लक्ष्मी के १४ नाम । ] (६) विष्णोः शङ्खस्य नामकम् । [ विष्णु के शंख का नाम । ] (७) विष्णोश्चक्रस्य नामकम् । [ विष्णु के चक्र का नाम । ] ( ८) विष्णोर्गदाया नामकम् । [विष्णु की गदा का नाम । ] (९) विष्णोः खड्गस्य नामकम् । [ विष्णु की तलवार का नाम ।] (१०) विष्णोर्मणेर्नामकम् । [ विष्णु की कौस्तुभमणि । नाम ।]
For Private and Personal Use Only