________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्वर्गवर्गः १] रत्नप्रभाव्याख्यासमेतः
'सर्वज्ञः सुगतो बुद्धो धर्मराजस्तथागतः । समन्तभद्रो भगवान् मारजिल्लोकजिज्जिनः॥ १३ ॥ षडभिज्ञो दशबलोऽद्वयवादी विनायकः । मुनीन्द्रः श्रोधनः शास्ता मुनिः शाक्यमुनिस्तु यः॥ १४ ॥ स शाक्यसिंहः सर्वार्थसिद्धः शौद्धोदनिश्च सः। गौतमश्वार्कबन्धुश्व मायादेवीसुतश्च सः॥ १५ ॥ ब्रह्माऽऽत्मभूः सुरज्येष्ठः परमेष्ठी पितामहः। हिरण्यगर्भो लोकेशः स्वयम्भूश्चतुराननः ॥ १६ ॥ धाताऽब्जयोनिद्रुहिणो विरञ्चिः कमलासनः । स्रष्टा प्रजापतिर्वेधा विधाता विश्वसृड् विधिः ॥ १७ ॥ [ नाभिजन्माण्डजः पूर्वो निधनः कमलोद्भवः । सदानन्दो रजोमूर्तिः सत्यको हंसवाहनः॥] विष्णुारायणः कृष्णो वैकुण्ठो विष्टरश्रवाः । दामोदरो हृषीकेशः केशवो माधवः स्वभूः ॥ १८ ॥ दैत्यारिः पुण्डरीकाक्षी गोविन्दो गरुडध्वजः । पोताम्बरोऽच्युतः शाङ्गः विष्वक्सेनो जनार्दनः ॥ १९ ॥ उपेन्द्र
इन्द्रावरजश्चक्रपाणिश्चतुर्भुजः। पद्मनाभो
मधुरिपुर्वासुदेवस्त्रिविक्रमः ॥ २० ॥ देवकीनन्दनः शौरिः श्रीपतिः पुरुषोत्तमः। वनमाली बलिध्वंसी कंसारातिरधोक्षजः ॥ २१ ॥ विश्वम्भरः कैटभजिद् विधुः श्रीवत्सलाञ्छनः । [पुराणपुरुषो यज्ञपुरुषो नरकान्तकः । जलशायो विश्वरूपो मुकुन्दो मुरमर्दनः॥]
(१) अष्टादशनामानि बुद्धस्य । [बुद्ध के १८ नाम । ] ( २ ) सहनामानि शाक्यमुनेः । [ शाक्यमुनि ( बुद्धविशेष ) के ७ नाम । ] ( ३ ) ब्रह्मणो विंशति नामानि । नाभिजन्मेत्यादीनि नव नामानि प्रक्षिप्लानि सन्ति । [ ब्रह्मा के २९ नाम । ] ( ४ ) विष्णोः ऊनचत्वारिंशत् नामानि, पुराणपुरुषेति सप्त प्रक्षि तानि । [ विष्णु के ४६ नाम । ]
For Private and Personal Use Only