________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमरकोषः
[द्वितीयकाण्डे "विंशत्याद्याः सदैकत्वे सर्वाः सङ्घययसङ्ख्ययोः ॥ ८३ ॥ सङ्ख्यार्थे द्विबहुत्वे स्तस्तासु 'चानवतेः स्त्रियः। पङ्क्तेः शतसहस्रादि क्रमाद्दशगुणोत्तरम् ॥ ८४॥ ५यौतवं द्रुवयं पाय्यमिति मानार्थकं त्रयम् । 'मानं तुलाऽङ्गलिप्रस्थै-'गुञ्जाः पञ्चाद्यमापकः ॥ ८५ ॥ 'ते षोडशाक्षः कर्षोऽस्त्री, पलं कर्षचतुष्टयम् । १°सुवर्णविस्तौ हेम्नोऽक्षे, १"कुरुविस्तस्तु तत्पले ॥८६॥ १२तुला स्त्रियां पलशतं, "भारः स्याद्विशतिस्तुलाः। १४आचितो दश भाराः स्युः,"शाकटो भार आचितः ॥ ८७ ॥
( १ ) विंशति: [ २० आदि संख्यायें एक वचनान्त होती हैं । ] इत्याद्या यासां सङ्ख्याः ताः सङ्ख्येयसङ्ख्ययोर्वर्तन्ते । एकवचनान्ताश्च । अत्रभाष्यम् - 'आदशभ्यः सङ्ख्या सङ्ख्येये वर्तते । ऊवं सङ्ख्याने सङ्ख्येये च'। इति । विशतिः पटाः । विंशतिः पटानाम् वा । शतं गावः । गवां शतं वा । ( २ ) सङ्ख्यामात्रार्थे वर्तमानाया विंशत्यादेः सङ्ख्याया द्विवचनबहुवचनेऽपि एक शेषेण स्तः । यथा-[ द्वे विंशती, तिस्रो विंशतयः । ] ( ३ ) तासु विशत्यादिषु नवतिमभिव्याप्य स्त्रीलिङ्गाभवन्ति । यथा-[ विंशतिः पुरुषाः। विशतिः फलानि । विंशतिः स्त्रियः । ] ( ४ ) दशानां पङ्क्तिरिति संज्ञा। पङ्क्तेर्दशगुणोत्तरं क्रमेण शतं, सहस्रमित्यादिभवति । [ दस, सौ, हजार आदि । ] ( ५ ) मानार्थस्य चत्वारि नामानि । [ नाप के ४ नाम । ] ( ६ ) तुलया, अङ्गल्या प्रस्थैश्च मानं भवति । [ तराजू, अंगुलियों और सेर आदि से वस्तु का मान ( नाप-तौल ) किया जाता है। ] ( ७ ) पञ्च गुञ्जापरिमितो माषको भवति । [ ५ रत्ती= १ माषा।] (८) षोडशमाषकपरिमितः कर्षः । [ १६ मासा = १ तोला । ] (९) कर्षचतुष्टयम् पलम् । [ ४ तोला = १ पल । ] ( १० ) अक्षमानस्य नामद्वयम् । [ सुवर्णकर्ष के २ नाम । ] ( ११ ) अक्षपलस्यैकम् । [ सुवर्ण पल । ] (१२) पलशतं तुला । [ ४०० तोला ५ सेर शास्त्रीय । लौकिक ४ सेर १२ छटाँक= १ तुला । ] ( १३ ) भारस्यकम् । [ २॥ मन= १ क्विटल ।] ( १४ ) आचितस्यकम् । [ २५ मन । ] ( १५ ) शाकटो भार आचितः कथ्यते । [ एक गाड़ी भार का नाम आचित । ]
For Private and Personal Use Only