________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमरकोषः भेदाख्यानायेति–अत्र कोषसाहित्ये अनुक्तानां स्वकीयपर्यायावसरेष्वपठितानां भिन्नलिङ्गानां भिन्नं लिङ्गं येषां पदानां तेषां, शब्दानां, भेदाख्यानाय लिङ्गभेदप्रदर्शनाय द्वन्द्वः एकशेषः, न कृतः । क्रमाद् ऋते क्रम प्रसङ्गं तस्माद् ऋते विना, अर्थात् प्रसङ्गमन्तरा, सङ्करो न कृतः, भिन्नलिङ्गवतां शब्दानां समस्थाननिवेशनं सङ्करः, तस्य प्रयोगो न विहितः । ___द्वन्द्वः–'परिवल्लिङ्ग द्वन्द्वतत्पुरुषयोः' । इति पाणिनीयशासनात् लिङ्गभ्रमे हेतुः। अतः द्वन्द्वो न कृतः। यथा—१. 'कुलिशं भिदुरं पविः' । अत्र 'कुलिशभिदुरपवयः । एवं प्रकारकः प्रयोगो न विहितः । २. 'दैवतादेवतामराः'। इति न कृतम् ।
एकशेषः-अस्मिन् शिष्यमाणलिङ्गस्यैव बोधो बोभवीति । यथा—'नभः खं श्रावणो नभाः' इत्यत्र 'खश्रावणौ तु नभसी' इत्येवमेकशेषो न कृतः। समलिङ्गवतां शब्दानां तदवैषम्याद् द्वन्द्वैकशेषौ विहितावेव । यथा--१. 'स्वर्गनाकत्रिदिवत्रिदशालयाः' । अत्र सर्वेऽपि शब्दाः पुंवाचकाः । २. 'पादा रश्म्यज्रितुर्यांशाः'। अत्रापि सैव स्थितिः। ३. 'मातापितरौ पितरौ' । एवमादिबोध्यम् ।
सङ्करः-भिन्नलिङ्गवतां शब्दानां मिश्रणं सङ्करः पूर्वं व्याख्यातः । अयं हि सङ्करः क्रमप्राप्तस्थलेषु कृत एव अन्यत्र तु स्पष्टमेव लिङ्गभेदो निर्दिष्टः । प्रसङ्गं विना सङ्करो न कृतः। यथा—स्तवः स्तोत्रं स्तुतिर्नुतिः । अत्रोदाहरणे स्तवः पुल्लिङ्गात्मकः, स्वोत्रं नपुंसकलिङ्गात्मकम्, स्तुतिः नुतिः च स्त्रीलिङ्गमाश्रयतः । 'जनुर्जननजन्मानि जनिरुत्पत्तिरुद्भवः' । अत्र पद्यांशे क्रमेण नपुंसक-स्त्री-पुंल्लिङ्गानां निर्देशो विहितो न सङ्करः । किन्त्वन्यत्र प्रसङ्गप्राप्ते भिन्न लिङ्गानां शब्दानां सङ्करो दृश्यते । यथा—'वर्गाः पृथ्वीपुरक्ष्माभृद्वनौषधिः । अत्र द्वन्द्वसङ्करौ । एवमग्रेऽपि ॥ ४॥
हिन्दी-पर्यायों के वर्णन के अवसर में जहाँ शब्दों के आगे पीछे लिंगों का उल्लेख नहीं किया गया है, वहाँ समझने में कठिनाई न हो इस भेद को दिखलाने के लिए इस कोष में द्वन्द्व तथा एकशेष समास और संकर ( भिन्न-भिन्न लिंग वाले शब्दों का एक साथ मिश्रण ) नहीं किया गया है ॥ ४॥ ___ त्रिलिङ्ग्या-त्रयाणां लिङ्गानां समाहारः, तस्यां, त्रिषु इति पदं प्रयुक्तम् । अर्थात् यस्य शब्दस्य प्रयोगस् त्रिषुलिङ्गेषु भवति तदर्थं त्रिषु शब्दप्रयोगः कृतः । यथा-त्रिषु स्फुलिङ्गोऽग्निकणः' 'त्रिषु तूत्तरौ""दाविकसारवौ' ।
For Private and Personal Use Only