________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिभाषाप्रकरणम्
तथा प्रतिसंस्कार कर उस विषय का वर्गों तथा काण्डों में विभाजन कर इस नामलिङ्गानुशासन नामक 'अमरकोष' की रचना की है ॥ २ ॥
प्रायशो रूपभेदेन साहचर्याच्च कुत्रचित् । स्त्री-पुं-नपुंसकं ज्ञेयं तद् विशेषविधेः क्वचित् ॥३॥ भेदाख्यानाय न द्वन्द्वो नैकशेषो न सङ्करः। कृतोऽत्र भिन्नलिङ्गानामनुक्तानां क्रमाइते ॥४॥ त्रिलिङ्गयां त्रिष्विति पदं मिथुने तु द्वयोरिति ।
निषिद्धलिङ्गं शेषार्थ त्वन्ताथादि न पूर्वभाक् ॥५॥ व्याख्या-अथ लिङ्गनिर्णयोपायं परिभाषते-प्रायश इति-अस्मिन्नामलिङ्गानुशासनाऽऽख्येऽमरकोषे प्रायशः अधिकांशतया, रूपभेदेन घन्, टाप, डीप, विसर्गाऽनुस्वादिविशेषः स्त्री-पुं-नपुंसकं ज्ञेयं, बोध्यं, क्वचित् तद् विशेषविधेः स्त्री-पुं-नपुंसकादीनां विशिष्यसङ्केतात् स्त्री-पुं-नपुंसकमिति ज्ञेयम् ।। ___ रूपभेदेन–'लक्ष्मी: पद्मालया पद्मा' । इत्यत्र स्त्रीलिङ्गस्य । पिनाकोऽजगवं धनुः' । इत्यत्र पुंल्लिङ्ग-नपुंसकयोः । कुत्रचित् लिङ्गशब्दसाहचर्यात्, तन्निर्णयः । यथा-'भानुः करो मरीचिः स्त्री-पुंसयोर्दीधितिः स्त्रियाम्' इत्यादिः । ____ साहचर्यात्-यत्र निश्चितलिङ्गवतां शब्दानां सहचरभावात् लिङ्गनिर्णयो भवति सः 'साहचर्यपदव्यपदेशः ।' तद्यथा-'अश्वयुगश्विनी' । भानुः करोमरीचिः स्त्रीपुंसयोः'। 'वियविष्णुपदम्'। एषूदाहरणेषु-अश्विनी-कर-विष्णुपदानां साहचर्यात् क्रमेण अश्वयुक्-भानु-वियच्छब्दानां स्त्रीपुनपुंसकत्वमवधेयम् ।
क्वचित्-कुत्रचित् स्थलेषु ततोऽपि विशेषोपादानात् सुस्पष्टं लिङ्गनिर्देशः । यथा-'भेरी स्त्री दुन्दुभिः पुमान्' । 'रोचिः शोचिरुभे क्लीबे'।
तद्विशेषविधेः-अर्थात् स्त्री-पुं-नपुंसकलिङ्गानां, वचनस्य च विशिष्यवर्णनात् समाधानं भवति । तद् यथा-'गृहाः पुंसि च भूम्न्येव' । 'मरीचिः स्त्रीपुंसयोः' । 'दीधितिः स्त्रियाम् । 'श्रुतिः स्त्री' । 'गुणे शुक्लादयः पुंसि' । 'तुवरस्तु कषायोऽस्त्री' । 'रमाः पुंसि' । 'भेरी स्त्री दुन्दुभिः' पुमान् । इत्यादि ॥ ३ ॥
हिन्दी-इस अमरकोष में प्रायः रूपभेद से स्त्रीलिंग, पुंल्लिग और नपुंसकलिंग के शब्दों का प्रयोग किया गया है। कहीं-कहीं इनको समझाने के लिए विशेष विधि का प्रयोग किया गया है। जिसका वर्णन संस्कृत व्याख्या में उदाहरण सहित कर दिया गया है ॥ ३ ॥
For Private and Personal Use Only