________________
Shri Mahavir Jain Aradhana Kendra
१३२
www.kobatirth.org
अमरकोषः
Acharya Shri Kailassagarsuri Gyanmandir
[ द्वितीयकाण्डे
'घोटके
वीतितुरगस्तुरङ्गाऽश्वतुरङ्गमाः ॥ ४३ ॥
वाजि-वाहाऽश्वगन्धर्व - हय-सैन्धव- सप्तयः आजानेयाः कुलीनाः स्युविनीताः साधुवाहिनः ॥ ४४ ॥ * वनायुजाः पारसीकाः काम्बोजा वाह्निका हयाः । "ययुरश्वोऽश्वमेधीयो, "जवनस्तु जवाधिकः हः ।। ४५ ।। 'पृष्ठ्यः स्थौरी, 'सितः कर्को, 'रथ्यो वोढा रथस्य यः ।
" बालः किशोरो, "वाम्यश्वा वडवा, वाडवं गणे ॥ ४६ ॥ १३ त्रिष्वाश्वीनं यदश्वेन fadna गम्यते ।
१४ कश्यं तु मध्यमश्वानां, "हेषा हेषा च निःस्वनः ॥ ४७ ॥ " निगालस्तु गलोद्देशो, ""वृन्दे त्वश्वीयमश्ववत् ।
१६
( १ ) घोटकानां त्रयोदश नामानि । [ घोड़ा के १३ नाम । ] वीति: पोतिरपि पाठ: । ( २ ) कुलीनाश्वानां नामद्वयम् । [ उच्चकुल के घोड़ा के २ नाम । ] ( ३ ) शिक्षितानां साधुवाहिनां घोटकानां नामद्वयम् । [ शिक्षित घोड़ा के २ नाम | ] ( ४ ) देशविशेषजघोटकानामेकैकं नाम । [ पारसी घोड़ा, काबुली घोड़ा | ] ( ५ ) अश्वमेध योग्यस्याश्वस्य नामद्वयम् । [ अश्वमेधयोग्य घोड़े के २ नाम । ] ( ६ ) अधिकवेगवतोऽश्वस्य नामद्वयम् । [ तेज दौड़ने वाला घोड़ा के २ नाम | ] ( 3 ) भारवाहिनोऽश्वस्य नामद्वयम् । तत्र स्थौरी नान्तः । [ लट्टू घोड़ा के २ नाम । ] ( ८ ) श्वेतवर्णवतोऽश्वस्यैकं नाम । [ कर्क । ] ( ९ ) रथवाहकस्याश्वस्यैकं नाम । [ रथ्य | ] ( १० ) अश्ववालकस्यैकम् किशोरः । [बछेरा । ] ( ११ ) बडवायास्त्रीणि नामानि । [ घोड़ी के ३ नाम । ] ( १२ ) अश्वसमूहस्यैकं नाम । [ वाडवम् | ] ( १३ ) अश्वेन दिनेकगम्यदेशस्य नाम त्रिषु । [ आश्वीनम् । ] ( १४ ) अश्वमध्यस्यैकम् | [ कश्यम् । ] ( १५ ) अश्वशब्दस्य नामद्वयम् । [ हिनहिनाना के २ नाम । ] ( १६ ) ग्रीवाया: समीपभागस्यैकं नाम । [ गर्दन का समीप भाग । ] अश्वशास्त्रे तद् यथा-'घण्टाबन्धसमीपस्थो निगाल: कीर्तितो बुधैः ।
तस्मिन्नेव मणिर्नाम रोमज: शुभकृन्मतः ॥
( १७ ) अश्व समूहस्य नामद्वयम् । [ अश्वसमूह के २ नाम । ]
For Private and Personal Use Only