________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमरकोषः
[द्वितीयकाण्डे
'साक्षराऽङ्गलिमुद्रा स्यात् कङ्कणं करभूषणम् । स्त्रीकट्यां मेखला काञ्ची सप्तको रशना तथा ॥ १०८ ॥ क्लीबे सारसनं चाऽथ पुंस्कट्यां शृङ्खलं त्रिषु। "पादाङ्गदं तुलाकोटिर्मञ्जीरौ नुपुरोऽस्त्रियाम् ॥ १०९॥ 'हंसकः पादकटकः, किङ्किणी क्षुद्रघण्टिका। 'त्वक्फलकृमिरोमाणि वस्त्रयोनिर्दश त्रिषु ॥ ११०॥ १°वाल्कं क्षौमादि, १'फालं तु कार्पासं बादरं च तत् । १२कौशेयं कृमिकोशोत्थं, "राङ्कवं मृगरोमजम् ॥ १११॥ १४अनाहतं निष्प्रवाणि तन्त्रकं च नवाम्बरे ।
"तत् स्यादुद्गमनीयं यद् धौतयोर्वस्त्रयोयुगम् ॥ ११२ ॥ ५"पत्त्रोणं धौतकौशेयं, "बहुमूल्यं महाधनम् ।
(१) साक्षराङ्गलिमुद्राया एकम् । [नामलिखी अंगूठी ।] ( २ ) कङ्कणस्य द्वे नामनी । [कंगन के २ नाम ।] ( ३ ) मेखलायाः पञ्च नामानि । तत्रायं विशेषः
'एकयष्टिर्भवेत् काञ्ची मेखलात्वष्टयष्टिका।
रसना स्यात् षोडशभिः कलापः पञ्चविंशकः' ॥ इति । रसना दन्त्यमध्या, तालव्यमध्याऽपि । [ कर्धनी के ५ नाम । ] ( ४ ) सा मेखला पुंस्कट्यां शृङ्खलमिति कथ्यते। [ पुरुषों की कर्धनी, तागड़ी। ] ( ५ ) नुपुरस्य चत्वारि नामानि । [ पायल, चैजनी के ४ नाम । ] ( ६ ) पादकटकस्य नामद्वयम् । [ पैर का कड़ा के २ नाम । ] (७) क्षुद्रघण्टिकाया नामद्वयम् । [ पैर के धुंघरू के २ नाम । ] ( ८ ) वस्त्रयोनीनां नाम । [ त्वचा, फल, कृमि, रोम ये वस्त्रों की योनियाँ है । ] (९) वक्षमाणा दश शब्दा विशेष्यनिघ्नत्वात् त्रिषु प्रयुज्यन्ते । यथा-वाल्क-क्षौम-फाल-कार्पास-बादर-कौशेय-राव-अनाहत-निष्प्रवाणि तन्त्रकाणीति । (१०) क्षौमादिवाल्कं कथ्यते । [ अण्डी।] ( ११) कार्पासस्य नामत्रयम् । [ सूती वस्त्र के ३ नाम । ] ( १२ ) कौशेयवस्त्रस्यकम् । [ रेशमीवस्त्र । ] ( १३ ) रावस्यकम् । [ भेड़ के बालों से बने हुए कम्बल आदि । ] ( १४ ) अनाहतवस्त्रस्य चत्वारि नामानि । [ कोरा या नया वस्त्र के ४ नाम । ] ( १५ ) प्रक्षालितवस्त्रयुगलस्यकं नाम। [ धुली हुई धोती. दुपट्टा । ] ( १६ ) धौतकौशेयस्य नामद्वयम् । [ धुले रेशमी वस्त्र के २ नाम । ] ( १७ ) बहुमूल्यवस्त्रस्य नामद्वयम् । [ कीमती वस्त्र के २ नाम । ]
For Private and Personal Use Only