________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मनुष्यवर्गः ६] रत्नप्रभाव्याख्यासमेतः
'अलङ्कारस्त्वाभरणं परिष्कारो विभूषणम् ॥ १०१॥
मण्डनं चाऽथ मुकुटं किरीटं पुनपुंसकम् । 'चूडामणिः शिरोरत्नं, तरलो हारमध्यगः ॥१०२॥ "बालपाश्या पारितथ्या, पित्त्रपाश्या ललाटिका । "कर्णिका तालपत्रं स्यात्कुण्डलं' कर्णवेष्टनम् ॥ १०३ ॥ 'अवेयकं कण्ठभूषा, १°लम्बनं स्याल्ललन्तिका। ११स्वर्णैः प्रालम्बिकाऽथोरःसूत्रिका'२ मौक्तिकैःकृता ॥ १०४ ॥ १३हारो मुक्तावली, देवच्छन्दोऽसौ शतयष्टिकः। १"हारभेदा यष्टिभेदाद् गुत्सगुत्सार्धगोस्तनाः॥१०५ ॥ १६अर्धहारो माणवक, एकावल्येकयष्टिका ।
सैव नक्षत्रमाला स्यात्सप्तविंशतिमौक्तिकैः॥१०६ ॥ १°आवापकः पारिहार्यः कटको वलयोऽस्त्रियाम् । १"केयूरमङ्गदं तुल्ये, ''अङ्गुलीयकमूर्मिका ॥ १०७ ॥
( १ ) अलङ्कारस्य पञ्च नामानि । [आभूषण के ५ नाम । ] ( २ ) मुकुटस्य नामद्वयम् । [ मुकुट के २ नाम । ] ( ३ ) चूडामणेर्नामद्वयम् । [चूड़ामणि के २ नाम । ] ( ४ ) हारमध्यवर्तिमणे म [ तरल ।] (५) बालपाश्या नाम । [ मांगटीका । ] ( ६ ) ललाटालङ्कारस्य नामद्वयम् । [ माथे की बिन्दी के २ नाम । ] (७) कर्णाभरणस्य नामद्वयम् । [ कनफूल के २ नाम । ] (८) कुण्डलस्य नामद्वयम् । [ कुंडल के २ नाम ।] (९) वेयकस्य द्वे नामनी । [ कण्ठा के २ नाम । ] ( १० ) ललन्तिकाया नामद्वयम् । [ कण्ठी के २ नाम । ] (११) स्वर्णकण्ठिकायाः। [ सोने की कण्ठी सिकड़ी । ] ( १२ ) उर:सूत्रिकाया एकम् । [ मोती की माला । ] ( १३ ) मुक्तावल्या नामद्वयम् । [ मोती की माला के २ नाम । ] ( १४ ) शतयष्टिकहारस्य नामद्वयम् । [ सौ लड़ा हार के २ नाम । ] ( १५ ) यष्टिभेदाद् हारभेदाः, यथा--द्वात्रिंशल्लतिको ( ३२ लड़वाला ) गुच्छ ( गुत्स ) तत्त्व ( २४ ) सङ्ख्यकः । गुच्छार्ध । चतुस्त्रिशल्लतिको हारः । चतुर्यष्टिः ( ४ लड़ का ) गोस्तन । एकयष्टिकः ( एकलड़ का) एकावली। (१६) विंशतिलतिको हारः ( २० लड़ का ) माणवक । सप्त विशतिमौक्तिकैः नक्षत्रमाला । ( १७ ) कटकस्य चत्वारि नामानि । [ पहुँची।। ( १८ ) केयूरस्य नामद्वयम् । [ बाजूबन्द के २ नाम । ] ( १९) अङ्गुलीयकस्य नामद्वयम् । [ अंगूठी के २ नाम । ]
For Private and Personal Use Only