SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 66 अलङ्कार महोदधौं वाच्यसिद्ध्यङ्गं काकुरिति गुणीभूतव्यङ्ग्यत्वं शङ्कनीयम् भजतीत्यत्र प्रयत्नविशेषोच्चारणे काकुमात्रेणापि प्रश्नमात्रनिष्ठश्लोकार्थोपपत्तौ मयीति विशिष्टकाक्कनुसरणस्य विशिष्टव्यङ्ग्यार्थ प्रतीतिहेतुत्वात् । वाक्यवैशिष्ट्याद् यथा— " प्राप्तश्रीरेष कस्मात् पुनरपि मयि तं मन्थखेदं विदध्यात् निद्रामप्यस्य पूर्वामनलसमनसो नैव सम्भावयामि | सेतुं बध्नाति भूयः किमिति च सकलद्वीपनाथानुयातस्त्वय्यायाते विकल्पानिति दधत इवाभाति कम्पः पयेोधेः ||८८ || " अत्र प्राप्तश्रीरित्यादीनां वाक्यानां वैशिष्ट्यान्नारायणरूपता राज्ञः प्रतीयते । वाच्यवैशिष्ट्याद् यथा Acharya Shri Kailassagarsuri Gyanmandir 1 उद्देशोऽयं सरसकद लिश्रेणिशोभाऽतिशायी कुञ्जोत्कर्षाङ्करितरमणीविभ्रमो नर्मदायाः । किं चैतस्मिन् सुरतसुहृदस्तन्वि ! ते वान्ति वाता येषामग्रे सरति कलिताकाण्डकोपो मनोभूः ॥ ८९ ॥ " कदलीति बाहुलकाद् ह्रस्वः । अत्र कदली- कुञ्जयोर्जनालोकवारण-रविकरनिग्रहप्रकाशनं वायोः सुरतखेदच्छेदित्वं सर्वेषामपि च मदनोद्दीपनत्वं चेति रतसामग्रीप्रकाश कवाच्यार्थवैशिष्ट्यात् ' सम्भोगक्रीडार्थमत्र प्रविश ' इति युज्यते । अन्यसमिधिवैशिष्ट्याद् यथा *" गुल्लेइ अणुलमणा अत्ता में घरभरंमि सयलम्मिँ । खर्णमित्तं जइ संझाइ होइ न व होइ वीसामो ॥ ९० ॥ " अत्र कयाचित् सखीं प्रति वदन्त्या प्रच्छन्नकामुकस्य सन्ध्या सङ्केतकालो ज्ञाप्यत इति प्रतीयते । तथाविधपुरुषकृतत्वं च सन्निधिवैशिष्ट्यम् । * नुदत्यनार्द्रमनाः श्वश्रम गृहभरे सकले । क्षणमात्रं यदि सन्ध्यायां भवति न वा भवति विश्रामः ॥ For Private And Personal Use Only १ प. वाक्य० । २ प. सरसि । ३ व. कदलि० । ४ अ. बुले० | १५ सयलं ति । ६ प ०मेतं । ジ
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy