________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
44
Acharya Shri Kailassagarsuri Gyanmandir
ध्वनिनिर्णयो नाम तृतीयस्तरङ्गः ।
प्रस्ताववैशिष्ट्याद् यथा
*" सुब्बइ समागमिस्सइ तुज्झ पिओ अज पहरमित्तेण । एमे किंति चिसिता सहि ! सेजेसु करणिजं ॥ ९१ ॥
"
अत्रोपपतिं प्रत्यभिमर्तु प्रस्तुता काचिन युक्तमिति संख्या निवार्यत इति व्यज्यते । सर्वदाऽभिसरणद्वारण हेतुत्वेन प्रतीतत्वं च प्रस्तावस्य वैशिष्ट्यम् । देशवैशिष्ट्याद् यथा
अन्यत्र यूयं कुसुमावचायं कुरुध्वमत्रास्मि करोमि सख्यः ! । नाहं हि दूरं भ्रमितुं समर्था प्रसीदतायं रचितोऽञ्जलिर्वः ।। ९२ ।। "
अत्र विविक्तोऽयं देशस्ततः प्रच्छन्नकामुकस्त्वया प्रस्थाप्य इति विश्वस्तां प्रति कयाचिनिवेद्यते इति ध्वन्यते । उद्देशोऽयमित्यत्र सकलस्यापि वाच्यस्य वैशिष्ट्यमिह तु सङ्केत योग्यत्वं देशमात्रस्यैवेति वाच्यवैशिश्वाद् भेदः ।
कालवैशिष्ट्याद् यथा
:" गुरुअणपरवस ! पिये । किं भणामि तुह मंदभाइणी अहयं । अज पवासं वचसि वच्च सयं चेव मुणसि करणिजं ।। ९३ ।। "
५१
अत्र मधुमये यदि व्रजसि तदहं तावन्न भवामि । तत्र तु न जानामि गतिमिति पतिं प्रति कस्याश्चिदभिप्रायः प्रतीयते । विरहिप्राणापहारित्वं च कालवैशिष्ट्यम् ।
आदिग्रहणाचेष्टादीनां परिग्रहः । तत्र चेष्टावैशिष्ट्याद् यथा-
* श्रूयते समागमिष्यति तव प्रियोऽद्य प्रहरमात्रेण ।
एवमेव किमिति तिष्ठसि १ तत् सखि ! सज्जय करणीयम् ! |
For Private And Personal Use Only
- गुरुजनपरवश ! प्रिय ! किं भणामि त्वां मन्दभागिनी अहम् । अद्य प्रवासं व्रजसि व्रज स्वयमेव जानासि करणीयम् ॥
१ अत्र. ०मेश्र० । २ अ ० अजे० । ३ अ. व. ० मरणहे० । ४ अ, पिअ । ५ अ. ० विशेषाद ।