________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलङ्कारमहोदधौ " द्वारोपान्तनिरन्तरे मयि तया सौन्दर्यसारश्रिया
प्रोल्लास्योरुयुगं परस्परसमासक्तं समापादितम् । आनीतं पुरतः शिरोंऽशुकमधः क्षिप्ते चले लोचने
वाचस्तञ्च निवारितं प्रसरणं सोचिते दोलते ॥ ९४ ।" अत्र चेष्टाभिः प्रच्छन्नकान्तविषया सानुरागता ध्वन्यते । अनुरागकल्लोलितलजाजनितत्वं च चेष्टानां वैशिष्ट्यम् ।
एवं वक्त्रादीनां द्विकादियोगेऽपि व्यञ्जकत्वमवसेयम् । तत्र वक्त-बोदध्ययोगे यथा
*" अत्ता इत्थ णुमजइ इत्थ अहं पिय सयं पलोएसु । ___ मा पहिअ ! रत्तिअंधय ! सिजाइ महं णुमजिहसि ॥ ९५ ॥" अत्ता श्वश्रुः । णुमजइ निषीदति । महं आवयोः, ममेति व्याख्यायमाने व्यङ्ग्यप्रतीतिर्न स्यात् । अत्र स्वैरिण्यां तथाविधपुरुषं प्रति वदन्त्यां द्वयवैशिष्ट्याद् मेति निषेधेन मम शय्यायामेव त्वया समागन्तव्यमिति विधिः प्रतीयते ।
___ एवमन्यदपि द्विक-त्रिकयोगे स्वयमभ्यूह्यम् । इदानीमुपचरितार्थस्य व्यञ्जकत्वमुच्यते । तत्र वक्तृवैशिष्ट्याद् यथा" दृष्टिं हे प्रतिवेशिनि ! क्षणमिहाप्यस्मद्गृहे दास्यसि
प्रायो नास्य शिशोः पिताऽतिविरसा कौपीरपः पास्यति । एकांकिन्यपि यामि तद् वरमितः स्रोतस्तमालाकुलं
नीरन्ध्राः पुनरुल्लिखन्तु जरठच्छेदा नलग्रन्थयः ॥ ९६ ॥" अत्र स्वैरिण्याः पत्यर्थं सरसजलानयनाय तत्ववृत्या गमनं न सम्भवतीति मुख्यार्थवाधादसत्येन यामीत्यनेन वैपरीत्यप्रत्यासत्या लोकेषु सतीत्वख्यापनरूपे
* श्वश्ररत्र निमज्जत्यत्राहमपि च (प्रिय!) स्वयं (दिवस) प्रलोकय ।
मा पथिक ! रात्र्यन्धक ! शय्यायामावयोनिमयसि ॥ १ प. ०कामुक० । १ प. तजनित० । ३ प. दिय, अ. दिअ० । ४ अ. एहि र० । ५ अ. व्यक्तिवैचिच्याद्व०॥
For Private And Personal Use Only