________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ध्वनिनिर्णयो नाम तृतीयस्तरङ्गः । फले सति सत्यं परपुरुषान्तिकगमनं लक्ष्यते। तेन च रतोपमईजनितनखर्वातादिगोपनं ध्वन्यते । विदितस्वैरिणीत्वं चात्र वक्तुर्वैशिष्ट्यम् ।
बोद्धव्यवैशिष्ट्याद् यथा*" सोहंती सहि ! सुहयं खणे खणे दूमिओं सि मज्झ कए।
सम्भाव नेह- करणिजसरिसयं दाव विरईयं तुमए ।। ९७ ॥" साधयन्ती मदनुकूलं कुर्वती, यदि वा प्रतिपादयन्ती युक्तायुक्तं बोधयन्ती । अत्र प्रत्यक्षदृष्टप्रियोपभोगचिह्नाया दृत्याः सद्भावस्नेहरूपं मित्रत्वं न सम्भवतीति मुख्यार्थवाधे वैपरीत्यरूपायां प्रत्यासत्तौ त्वमसद्भावपरा निःस्नेहा च सदाप्यभूरिति गुप्तासत्यार्थप्रतिपादने च फले शत्रुत्वं लक्ष्यते । तेन च तस्याः स्नेहपात्रमियं सद्य एव तत्पार्थ यास्यतांति जाननपि यस्त्वां दूतीमपि कामयते तेनातिधृष्टेन किं कार्यमिति कामुकविषयं सापराधत्वं व्यज्यते । एवं काकादिवै. शिष्ट्यादपि लक्ष्यार्थव्यञ्जकत्वं ज्ञेयम् ।। अथ व्यङ्ग्यार्थव्यञ्जकत्वम् । तत्र वक्तृवैशिष्ट्याद् यथा"भम धम्मि! वीसत्थो सो सुणओ अज मारिओ तेण।
गोलाणइकच्छकुडंगवासिणा दरिअसीहेण ।। ९८ ॥" अत्र अमेत्यादिविधिना गोदावरीतीरे सिंहसद्भावाद् धार्मिकस्य भ्रमणनिषेधो व्यज्यते । तेन च तत्रोपपतिना सह निष्प्रत्यूहसुरतव्यापाराभिलाषित्वं कस्याश्चित् प्रतीयते।
बोद्धव्यवैशिष्ट्याद् यथा
* साधयन्ती सखि ! सुभगं क्षणे क्षणे दूनाऽसि मम कृते ।
सद्भाव-स्नेह-करणीयसदृशं तावद् विरचितं त्वया ॥ : भ्रम धार्मिक ! विश्वस्तः स श्वाऽद्य मारितस्तेन ।
गोदानदीकच्छकुडङ्गवासिना दृप्तसिंहेन । ११. ०क्षिता०, अ. क्षतादि ध्व० । २ अ. व. साहिती । ३ व. ०मिया । ४ अ. करिज । ५ अ. रयियं । ६ प. दिति । ७ प. सभ्या० । ८ व. •रियसी० ।
For Private And Personal Use Only