________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४
अलङ्कारमहोदधौ " निःशेषच्युतचन्दनं स्तनतट निर्मुष्टरागोऽधरो
नेत्रे दूरमनञ्जने पुलकिता तन्वी तथेयं तनुः । मिथ्यावादिनि ! दृति ! बान्धवजनस्याज्ञातपीडागमा
वापी स्नातुमितो गताऽसि न पुनस्तस्याधमस्यान्तिकम् ? ॥९९॥ "
अत्र न पुनरिति निषेधेन निःशेषच्युतादिपदसमूहसहायाऽधमपदबलात् तदन्तिकमेव रन्तुं गताऽसीति विधिय॑ज्यते । तथाहि-च्युतं भ्रष्टं, क्षालितमित्युक्ते तु व्यङ्ग्यार्थप्रतीतिर्न स्यात् , क्षालनस्य वाप्यामेव भावात् । नितरां मृष्टरागो न तु किश्चित् । दूरमनञ्जने, निकटे तु साञ्जने। पुलकिता तन्वीत्युभयं विधेयम् । व्यङ्ग्यपक्षे इत्येकं व्यङ्ग्यम् । तेन च त्वमिव सोऽधमस्तावत् यस्त्वां कामयते । स इव स्वमप्यधमा या प्रीतिपात्रभूताऽपि मम प्रियोपभोगं कुरुषे । तत् तेन च त्वयाऽपि च न मे कार्यमित्याधुपमेयोपमागर्भ बहु ध्वन्यते । एवं काक्वादिवैशिष्ट्यादपि व्यङ्ग्यार्थव्यञ्जकत्वमुदाहार्यम् ।। ७-८ ॥
अथ व्यञ्जकत्वमापनस्य मुख्यार्थस्य का वार्तेत्याहव्यज्यतेऽर्थान्तरं यत्र मुख्यार्थेन स्वनिहवात्। तस्मिन् विवक्षितस्यापि तस्यान्यपरता भवेत् ॥९॥ मुख्यार्थस्य हि परोपकारित्वे सति क्वाप्यविवक्षितत्वं कापि विवक्षितत्वम् । तत्राविवक्षितस्य स्वरूपमुपचारप्रस्तावे कथितमेव । विवक्षितस्य तु कथ्यते। यत्र यस्मिन् काव्ये मुख्यार्थेन स्वनिह्नवादात्मानं निनुत्य पश्चात्कृत्य किमप्यर्थान्तरं व्यज्यते तस्मिन् काव्ये तस्य मुख्यार्थस्य विवक्षितस्यापि वक्तुमिष्टस्याप्यन्यपरता व्यङ्ग्यार्थनिष्ठता भवेत् । न स्वातन्त्र्यमित्यर्थः ।। ९ ॥
कथितं मुख्यार्थस्वरूपम् । अथ व्यङ्ग्यार्थस्य भेदान् वक्तुकामः प्रथम द्वैविध्यमाह
तत्सङ्गते ध्वनौ काव्ये क्वाप्यसंलक्षितक्रमः । संलक्षितक्रमः कापि व्यङ्ग्योऽर्थः प्रकटीभवेत् ।। १० ॥
१ अ. निर्नष्ठ । २ अ. त्रापि वि० । ३ प. ०तस्व० । ४ आ. व. ८स्यान्य० ।
For Private And Personal Use Only