________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ध्वनिनिर्णयो नाम तृतीयस्तरङ्गः । . तत्सङ्गते व्यङ्ग्यार्थनिष्ठमुख्यार्थयुक्ते ध्वनाविति ध्वनिसंज्ञे काव्ये व्यङ्ग्योऽर्थो द्विधा स्फुटीभवति । क्वचिदसंलक्षितक्रमः न संलक्षितः सन्नपि न सम्यम् ज्ञातः क्रमो यस्य । रसादयो हि विभावानुभाव-व्यभिचारिभिः प्रथममाविर्भूतैरनन्तरमाविष्क्रियन्ते इत्यस्ति क्रमः । स चाशुभावित्वान्न लक्ष्यते, विभावादिसमकालमेव रसादीनां प्रतीयमानत्वात् । कचिच्च संलक्षितक्रमो मुख्यार्थप्रतीत्यनन्तरं हि घण्टा रणनप्रतिमः सहृदयप्रतिभासमर्पितो वस्त्वलङ्कारवपुर्व्यग्योऽर्थः प्रतिभातीति ॥ १० ॥
अथासंलक्षितक्रममाहतयोरायो रसा भावाः स्थायि-सञ्चारिमूर्तयः । तदाभासास्तथाभावस्थिति-शान्त्युदयादयः ॥११॥ तयोः पूर्वोक्तयोर्द्वयोर्मध्ये आँछः प्रथमोऽसंलक्षितक्रमः। स च किंस्वरूप इत्याह-रसाः शृङ्गारादयो भावा द्विधा स्थायि-सञ्चारिमूर्तयः स्थायि-सश्चारिरूपाः स्थायिनो रत्यादयः, संचारिणो हर्षादयश्च । तदाभासास्तेषां रसानां भावानां चाभासास्तथा भावानां स्थिति-शान्त्युदयादयोऽवस्थाविशेषा आदिशन्दात् सन्धिशबलत्वपरिग्रहः ॥ ११ ॥
अथ रसस्वरूपमाहविभावैरनुभावैश्च व्यक्तोऽथ व्यभिचारिभिः । स्थायी रत्यादिको भावो रसत्वं प्रतिपद्यते ॥ १२॥
स्थायिनां विभावानुभाव-व्यभिचारिणां च स्वरूपं वक्ष्यते । विभावै रत्यादेरुन्मीलनकारणैरनुभावैस्तस्यैव कार्यैर्व्यभिचारिभिरस्यैव सहकारिभिर्व्यक्तः प्रादुष्कृतः स्थायी सर्वेषामपि वासनात्मतया स्थितो रत्यादिको रतिप्रभृतिर्भावो रसत्वं शृङ्गारादिरसरूपता प्रतिपद्यते समाश्रयति । यदुक्तं भरतमुनिना" विभावानुभाव-व्यभिचारिसंयोगाद् रसनिष्पत्तिः" इति । तदेतट्टीकाकृतो व्याकुर्वते । तथाहि--" विभावैर्ललनोद्यानादिभिरालम्बनोद्दीपनकारणैर्जनितोऽ
१ प. यो वि०। २ . व. ०मिव । ३ प. नुसर० । ४ अ. ०द्योऽसं०। .
For Private And Personal Use Only