SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ध्वनिनिर्णयो नाम तृतीयस्तरङ्गः । पुण्यमुन्मीलति येन ते व्यञ्जका जायन्ते। परं कचित्, न सर्वत्र । कुत एतदित्याहवक्त्रादीनां वैशिष्ट्यादिति । किमुक्तं भवति १ यत्र वक्त्रादीनां वैशिष्ट्यं प्रागल्भ्यशालिनोऽपि त्रयोऽप्यस्तित्रैव व्यञ्जका नान्यत्र । तत्र वक्ता प्रतिपादकस्तस्य वैशिष्ट्याद् यथा* " माए ! घरोवयरणं अञ्ज हु नस्थि ति साहिअं तुमए। .. ता भण किं करणिजं एमेव न वासरो ठाइ ॥ ८५॥" अत्र विज्ञातस्वैरिणीत्वरूपाद् वक्तृवैशिष्ट्यात् काचित् स्वैरविहारार्थिनी तटस्थेन प्रतिभावता व्यज्यते । तटस्थेनेत्यादिकं चोत्तरेष्वपि ज्ञेयम् । प्रतिपाद्यो बोद्धव्यस्तद्वैशिष्ट्याद् यथा+ " उन्निदं दोबल्लं चिन्ता अलसत्तणं सनीससि । मह मंदभाइणीए केरं सहि! तुह वि अहह ! परिहवइ ।। ८६॥" महकरं मम सम्बन्धि । तुह वि त्वामपि । अत्र इत्यास्तत्कामुकोपभोगों व्यज्यते । तथाविधतीत्वं च बो व्यस्य वैशिष्ट्यम् । काकुवैशिष्ट्यान् यथा" तथाभूतां दृष्ट्वा नृपसदसि पश्चालतनयां बने व्याधैः साई सुचिरमुषितं वल्कलधरैः । विराटस्यावासे स्थितमनुचितारम्भनिभृतं गुरुः खेदं खिन्ने मयि भजति नाद्यापि कुरुषु ॥ ८७॥" अत्र मयीत्यत्र प्रयत्नविशेषोच्चारणे कोपोपालम्भपरत्वेन काकोर्वैशिष्ट्याद् मयि न योग्यः खेदः, कुरुषु तु योग्य इति भीमाभिप्रायः प्रतीयते । न च * मातHहोपकरणमद्य खलु नास्तीति कथितं त्वया । तद् भण किं करणीयमेवमेव न वासरस्तिष्ठति ॥ + औन्नियं दौर्बल्यं चिन्ताऽलसत्वं सनिःश्वसितम् । मम मन्दभागिन्याः सखि ! त्यामप्यहह ! परिभवति ॥ १ . •साहियं । २ प. हा स्वै० । ३ प. सहिरं, व. ०तास्वैरिणी बहुरू० । ४ प. गुरुं । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy