SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अलङ्कार महोदधौ यत् किमप्यर्थस्य निर्दोषत्वादिजनितं वैचित्र्यं विद्यते तत् समग्रम वक्ष्यते इति ॥ ४ ॥ सम्प्रति यद् वक्तव्यं तदाह यत् तु वैचित्र्यमर्थस्य व्यञ्जकत्वमुपेयुषः । व्यङ्ग्यार्थप्रत्ययाधायि तद्न्त्रैव प्रतन्यते ॥ ५ ॥ यत् पुनरर्थस्य व्यञ्जकत्वं प्राप्तवतः प्रतीयमानार्थप्रतीतिकारि विचित्रत्वं तदत्रैव प्रतन्यते विस्तरेण कथ्यते ॥ ५ ॥ अथ व्यङ्ग्यार्थस्वरूपाण्याह यद्यप्यनेकधा व्यङ्गधं व्यअकोदिविभेदतः । तथापि वस्त्वलङ्कार - रसात्मत्वात् त्रिधैव तत् ॥ ६ ॥ यद्यपि व्यञ्जकानामादिशब्दाद् व्यञ्जनीयानामपि विभेदादनेकरूपं व्यङ्ग्यं व्यङ्ग्योऽर्थः। सामान्यविवक्षयाऽत्र नपुंसकत्वम् । तथापि वस्तु किमप्यर्थमात्रमलङ्काराश्रोपमाऽऽदयो रसाथ शृङ्गारादयस्तदात्मत्वात् तद्रूपत्वात् तद् व्यङ्गथं त्रिविधमेव, न चतुर्थः प्रकारोऽस्तीति ॥ ६॥ कथितं व्यङ्गथार्थस्वरूपम् । अथ मुख्याद्यर्थानां व्यञ्जकत्वमाहवक्तृ - बोद्धव्य- काकूनां वाक्य - वाच्यान्य सन्निधेः । प्रस्ताव- देश - कालादेवैशिष्ट्यात् प्रतिभाजुषाम् ॥ ७ ॥ मुख्योपचरित - व्यङ्गयाः कचिदर्थास्त्रयोऽप्यमी । बिभ्रति व्यञ्जकीभावं निजप्रागल्भ्यसम्पदा ॥ ८ ॥ downl मुख्याद्यास्त्रयोऽप्यर्थाः प्रतिभाजुषां वैदग्ध्यशालिनां विदग्धान् प्रतीत्यर्थः व्यञ्जकत्वं धारयन्ति । कया ? निजप्रागल्भ्यसम्पदा । तत् किंश्चित् सन्निवेशनै For Private And Personal Use Only १५. यदय० । २प व्यञ्जनादि० । ३ अ. व्यजना० । ४ प. व. त्यात् व्य० । ५ प० सन्निधिः । ६ प. युगरुम् ।
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy