SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ध्वनिनिर्णयो नाम तृतीयस्तरङ्गः । .... पुनः कथम्भूतः १ अयोनिः न विद्यते योनिरुत्पत्तिभूमिर्यस्य स तथा। पूर्व कविभिरस्पृष्ट इत्यर्थः । यथा" किं ब्रूमो जलधेः श्रियं स हि खलु श्रीजन्मभूमिः स्वयं __ वाच्यः किं माहमाऽपि यस्य हि किल द्वीपं महीति श्रुतिः । त्यागः कोऽपि स तस्य बिभ्रति जगद् यस्यार्थिनोऽप्यम्बुदाः शक्तेः कैव कथाऽपि यस्य भवति क्षोभेण कल्पान्तरम् ॥ ८२ ॥" किमयोनिरेवायमुतास्य प्रकारान्तरमप्यस्तीत्याह-अपरच्छायायोनिर्वाऽपरस्य काव्यार्थस्य या छाया सादृश्यमानं सा योनिर्यस्य स तथा। वाऽथवार्थे । किमुक्तं भवति ? यदपूर्व एवं तावदर्थः काव्ये निवन्धनीयस्तैदसम्पत्तावपरच्छायाप्रमवोऽपि विशेष कमप्युन्मेषयन् न विरुद्धयते । अत एवोक्तं परभागभाक् पूर्वस्माद् गुणोत्कर्षवान् इति । यथा" मानिनीजनविलोचनपातानुष्णबाप्पकलुषान् प्रतिगृखन् । मन्दमन्दमुदितः प्रययौ खं भीतभीत इव शीतमयूखः ॥ ८३॥" अयमेवार्थः कविप्रतिभाविशेषितो यथा" क्रमादेक-द्वि-त्रिप्रभृतिपरिपाट्या प्रकटयन् ___ कलाः स्वैरं स्वैरं नवकमलकन्दाकररुचः । पुरन्ध्रीणां प्रेयोविरहदहनोद्दीपितदृशां __ कटाक्षेभ्यो विम्यन् निभृतमिव चन्द्रोऽभ्युदयते ॥४४॥" सोऽयमपरच्छायायोनिः । युग्मम् ॥ २-३ ॥ अर्थवैचित्र्यस्य कियतोऽप्यतिदेशमाहविचित्रत्वमदोषत्व-गुणालङ्कारनिर्मितम् । यदर्थस्यास्ति तत् सर्वं पुरस्तादभिधास्यते ॥४॥ १व. ०मीय० । २ प. भूमी । ३ अ. यस्य बि० ॥ ४ व. कला । ५ अ. काव्यस्य छा० । ६ प. मता। ७. एवार्थः । ८ . तदसम्भवे अप० । ९. प्रायो। १० प. विभ्रन् । ११ व. भूषिः । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy