SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथ तृतीयस्तरङ्गः। अथ पूर्वोक्तानुवादपूर्वमुत्तराभिधेयमुपक्रमतेइत्युक्तं शब्दवैचित्र्यमर्थवैचित्र्यमुच्यते । महाकविरिति ख्याति लभन्ते कवयो यतः ॥१॥ इति पूर्वोक्तप्रकारेण शब्दवैचित्र्यमुक्तं प्रतिपादितम् । इदानीमर्थवैचित्र्यमुच्यते । यतो यस्मादर्थवैचित्र्यात् कवयो महाकविरिति ख्याति प्रसिद्धिं लभन्ते प्राप्नुवन्ति । न ह्यनुतार्थवैचित्र्यमन्तरेण महाकवित्वलाभः ॥ १॥ अथ यत् प्रतिज्ञातं तदेवाहअक्लिष्टप्रतिभादृष्टः सौकुमार्यमनोरमः । रससंवलितानेकभङ्गीसर्वाङ्गभूषितः ॥२॥ अयोनिरपरच्छायायोनिर्वा परभागभाक् । स चेतनचमत्कारी धत्तेऽर्थः कविताङ्गताम् ॥ ३॥ अर्थोऽभिधेयं वस्तु कविताङ्गता काव्यकारणत्वं धत्ते धारयति । कीदृशः ? अक्लिष्टप्रतिभादृष्टः अक्लिष्टा कदर्थनारहिता या प्रतिमा नवनवोल्लेखशाली प्रज्ञाकि शेषस्तया दृष्टो विभावितोऽत एव सौकुमार्यमनोरमः । सुकुमारसम्भूतं हि वस्तु सुकु. मारमेव भवति । पुनः कीदृशः । रसैः शृङ्गारादिभिः संवलिता मिश्रीभावशालिनी याऽनेका भङ्गी विच्छित्तिस्तया सर्वाङ्गमामूलचूलं भूषितः समलङ्कतः । अर्थों हि रसकल्लोलिनी नवनवां विच्छित्तिमूरीकुर्वन्नेव चारिमाणमारोहँति । यथा " आराद्धं किमु दैवतं कुवलयैस्तेपे तपश्चन्द्रमाः किनामाऽयमिदं च काञ्चनरुचा किं भाग्यमुज्जृम्भते ? । दैवं वाँऽद्य किमानुकूलिकमभूद् बालप्रवालश्रिया मस्याः स्मेरदृशो दधत्यवयवौपम्यं यदेतान्यपि ॥ ८१॥" १. ०दमुः । २ प. सौकर्मम । ३ ब. ०विच्छित्तिभू० । ४ ५. युगली । ५ ५. ०णतां ६. शालिप्र०, प. प्रतिभा । ७ व. ०हयति । ८ व. चाय। . For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy