SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शब्दवैचित्र्यवर्णनो नाम द्वितीयस्तरङ्गः । या काचिदपरस्यार्थस्य मतिर्बुद्धिर्भवति सा नाभिधातस्तस्या नियमितत्वात् , नाप्युपचारात् तमिमित्तानाममावादपि तु व्यञ्जनव्यापारादेव । यथा " स सैन्यसैन्धवोठूतः पांशुभिः पूरयन् दिशः । न सेहे मिहिरस्यापि पृथिव्यां पततः करान् ।। ७९॥" अत्र मिहिरशब्दप्रत्यासत्तेः किरणेषु नियमितोऽपि करशब्दो दण्डरूपमर्थान्तरं व्यञ्जयन् ' एकछत्रां धरित्री स भुक्तवान्' इति वस्तु प्रकाशयति । तथा" यदीयोऽसिः कालः प्रतिकरटिसिन्दूररुचिभि-. व्यंधात् सन्ध्यां मुक्तास्तदनु किल ताराः समुदगुः । यशाश्वेतज्योतिस्तदथ समभूद् येन जयिना चिरं चक्रे राकारजनिमयमेव त्रिभुवनम् ॥ ८॥" अत्र काल-तारा-श्वेतज्योतिःशब्दा असि-मुक्ता-यशःशब्दानां सन्निधानात् कृष्णगुण-नैर्मन्य-विशदद्युतित्वेषु नियन्त्रिता अप्यनेहो-नक्षत्र-शीतांशून् व्यञ्जयन्तस्तैः सार्धमुपमानोपमेयतां वनयन्ति ॥ ३२-३४ ॥ .... न शब्दवैचित्र्यमिदं विनाऽश्नुते श्रियं कवीनां भणितिर्महत्यपि। मरीचयश्चण्डरुचो हि दर्पणे निपेतिवांसो विकसन्ति नाश्मनि ॥ इत्यलकारमहोदधौ शब्दवैचित्र्यवर्णनो नाम द्वितीयस्तरङ्गः ॥२॥ - व. •सामाना भिः । २ अ. त्वात् सस०। ३ प. दिति । ४.व. वोद्भूतैः । ५ व. पांसु.। ६ प. यथा । . प. राजा।। For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy