SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ४४ अलङ्कार महोदधौ देवस्य पुरारातेः' इति शब्दान्तरसभिधानात् पशुपतौ ८ । " 'मधुना मत्तः कोकिलः ' इति सामर्थ्याद् वसन्ते ९ । ' तन्व्या यत् सुरतान्तकान्तनयनं वक्त्रं रतिव्यत्यये । तत् त्वां पातु ' इत्यौचित्यात् प्रसादसाम्मुख्ये पालने १० । Acharya Shri Kailassagarsuri Gyanmandir "मात्मत्र परमेश्वरः' इति राजधानीरूपाद् देशाद् राजनि ११ । 'चित्रभानुर्विभात्यत्र' इति कालविशेषाद दिने खौ, रात्रौ च बह्रौ १२ । 'मित्रं भाति' इति ' मित्रो भाति' इति च व्यक्तिविशेषाल्लिङ्गविशेषात् सुहृदि वौ च प्रतीतिः १३ । उदाचादेः स्वरविशेषात् पुनर्वेद एवं विशेषार्थप्रतिपत्तिर्न काव्यमार्गे । तथाहि - 'मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्या प्रयुक्तो नै तमर्थमाह । स वाग्वज्जो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात् ।। ' इति करयटोक्तन्यायान्मिथ्या प्रयुक्तो मन्त्रः प्रयोक्तारमेव हन्ति । यथेन्द्रशत्रुरिति मन्त्रः । पूर्व हि इन्द्रस्याभिचारो वृत्रेणाब्धस्तत्रेन्द्रशत्रुर्वर्धस्वेति मन्त्र ऊहितः । तत्र चेन्द्रस्य शमयिता शातयिता वेति क्रियारूपः शत्रुशब्दः समाश्रितो न तु रूढिशब्दः । तदाश्रयणे हि बहुव्रीहितत्पुरुषयोरर्थाभेदः । ततश्चेन्द्रशत्रुरित्यन्त्योदात्ते षष्ठीतत्पुरुषे प्रयोक्तव्ये आयोदातो बहुव्रीहिर्ब्राह्मणेन प्रयुक्तैस्तेनेन्द्रस्तस्यैवं शमयिता जात इति स्वरो वेद एवोपयोगी, न काव्यमार्ग इति १४ । आदिशब्दादभिनयादिभ्यो यथा इदमित्थणिया इदमिचेहिं अच्छिनत्तेहिं । इदमित्था इद्दहमितेहिं दिअहेहिं ॥ ७८ ॥ एवं संयोगादिभिर्नियन्त्रितादप्येकस्मिन्नर्थे स्थापितादप्यनेकार्थात् शब्दाद् * एतावन्मात्रस्तनिका एतावन्मात्राभ्यामक्षिपत्राभ्याम् । एतावन्मात्रावस्था एतावन्मात्रैर्दिवसैः ॥ १. तन्या । २ अ. प. ०भातीति । ३ व. तदर्थ ० । शतियता चेति । ५ अ. ०स्ते इन्द्र० । ८ प. अ. ०थणिभा । ९ व दियए० । ४ व. शातयिता जा०, पू. शमयति ६ अ ०व वृत्रस्य शातयिता । ७ प. इत६० । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy