________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शब्दवैचित्र्यवर्णनो माम द्वितीयस्तरङ्गः । अप्रतापः। विधुः अनिशाकृत् । मधुः अलीलः । मतिमान् अतचवृत्तिः। प्रतिपत् अपक्षाग्रणीरिति विरोधाभासो व्यङ्गयः ।
चतस्रोऽस्य भिदास्ततः ॥३१॥ ततः कारणादस्य शब्दशक्तिमूलस्य ध्वनरर्थान्तरसक्रान्तवाच्यात्यन्ततिरस्कृतवाच्यभेदाम्यां सह चत्वारो भेदाः ॥ ३१ ॥ .. ननु संयोगाबैर्नियमितादप्यनेकार्थात् शब्दाद् या काचिदर्थान्तरप्रतीतिस्तस्यां किं शब्दस्याभिधैव व्यापारः ? किं वाऽपरः कश्चिदित्याह
या च शब्दादनेकार्थात् संयोगायैर्नियन्त्रितात् । अपरार्थमतिः काचित् व्यञ्जनादेव सा मता ॥३२॥ संयोगो विप्रयोगश्च साहचर्य विरोधिता। अर्थः प्रकरणं लिङ्ग शब्दस्यान्यस्य सन्निधिः ॥ ३३ ॥ सामर्थ्य मौचिती देशः कालो व्यक्तिः स्वरादयः। शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ॥ ३४ ॥
इत्युक्तानुसारेण शब्दानामेकस्मिन्नर्थे नियमनं यथा- ... 'वनमिदमभयमिदानी यत्रास्ते लक्ष्मणान्वितो रामः ।' इति
'विना सीता रामः प्रविशति महामोहसरणिम् ।' इति च संयोगाद् विप्रयोगाच्च दाशरथौ २। 'बुधो भौमथ तस्योरनुकूलत्वमागतौ ।' इति' साहचर्याद ग्रहविशेषे ३ । 'रामार्जुनव्यतिकरः साम्प्रतं वर्तते तयोः। इति विरोधाद् भार्गव-कार्तवीर्ययोः४। 'स्थाणुं भज भवच्छिदे' इत्यर्थात् प्रयोजनादीश्वरे ५ । 'सर्व जानाति देवः' इति प्रकरणाद् युष्मदर्थे ६ । 'कोदण्डं यस्य गाण्डीवं स्पीते कस्त मर्जुनम् ।' इति लिङ्गाचिह्वात् पार्थे ७ ।
१. •ब्दस्य श० । २ प ०प्येका० । ३ प. स्यैवाभिधा । ४ प. त्रिभिः कुलकम् ।
For Private And Personal Use Only