________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४१
• ङ्कारमहोदधौ
अत्र तदिति प्रतीयमानम् ॥ ३० ॥
एवमुपचरान्मूलव्यङ्ग्यप्रस्तावात् शब्दस्य सामान्यतो व्यञ्जनवैचित्र्यमवस्थाप्य तदेवेदानीमभिधामूलमाह
वस्त्वलङ्कारयोर्मुख्यशब्दतो व्यञ्जनाद् ध्वनिः । शब्दशक्तिभवो द्वेधा
शब्दशक्तिभवः शब्दशक्तिसमुत्थो ध्वनिर्देषा द्विप्रकारो भवति वस्तुध्वनिरलङ्कारध्वनिश्व । कुत इत्याह- वस्त्वलङ्कारयोरित्यादि । मुख्यादनुपचारात् शब्दादू वस्तुनोऽलङ्कारस्य च व्यञ्जनात् परिभासनात् । तत्र वस्तुध्वनिर्यथा
Acharya Shri Kailassagarsuri Gyanmandir
“ शनिरशनिश्च तमुच्चैर्निहन्ति कुप्यसि नरेन्द्र ! यस्मै त्वम् । यत्र प्रसीदसि पुनः स भात्युदारोऽनुदारश्च ।। ७५ ॥”
अत्र त्वदनुवर्त्तनाय विरुद्धावप्येकं कार्यं कुरुत इति वस्तु ध्वन्यते । अलङ्कारध्वनिर्यथा
" अमित्रक्षेत्रेषु प्रसभमसिधेनुस्तव नवं
चिरं चीर्णा भूमीतलतिलकपत्राङ्कुरवनम् । यशोदुग्धं स्निग्धं किमपि तदसूत प्रतिमुहुः प्रतेने येनायं त्रिभुवनपुटीपूरणविधिः ॥ ७६ ॥।”
अत्रैकार्थः कृपाणीवाचकोऽसिधेनुशब्दो मध्यानुप्रविष्टधेनुशब्दमाहात्म्यात् सुरम्बा सार्द्धमौपम्यं व्यनक्ति ।
यथा च-
" तिग्मरुचिरप्रतापो विधुरनिशाकुद् विभो ! मधुरलीलः । मतिमानतस्ववृत्तिः प्रतिपदपक्षाग्रणीर्विभाति भवान् ॥ ७७ ॥ "
तिग्मा रुचिरप्रतापो यस्य, विधुराणां वैरिणां निशामुपचारात् मूर्च्छान्धकारं करोति । मधुरा लीला यस्य । मतौ सद्बुद्धौ माने पूज्यपूजने तस्वे परमार्थे च वृत्तिर्यस्य । प्रतिपदं स्वपक्षेऽग्रणीः । एतेषां च पदानां द्विपदत्वे तिग्मरुचिः
१ अ. ० चारमू० । २ अ. शब्दसा० । ३ अ. ०धाय मू० । ४. अ० अनध्व० । ५अ. प्रतिभा० | ६ अ. व. व्यभ्यते । ७. माने पूजने ।
For Private And Personal Use Only