________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शब्दवैचित्र्यवर्णनो नाम द्वितीयस्तरङ्गः । क्रमात् तद्ग्रहणशालित्वे मिथः सङ्गतत्वे शोभाकारित्वे तत इतः संवरणे प्रसरगे च यथाक्रम सादृश्यरूपे प्रत्यासत्तिविशेषे सत्यभ्यासादिसामान्यानां गत्यादिष्वारोपः । सम्यग्ग्रहणं सस्पृहकामिजनावलोकनमखिललोकग्राह्यत्वमाभिजात्यं झटिति कामिजनमनोवशीकरणं प्रागल्भ्यप्रकटनं क्रमात् प्रौढीभवनं चेत्याधतिशया व्यङ्गयाः । अगूढो यथा" दुर्मेधसोऽपि भूधवशरौघताण्डवनचण्डपाण्डित्यम् ।
अध्यापयति धनुस्तव विरोधिनो नतिविधीन् सहसा ॥ ७३ ॥" ...अत्र विद्वत्कार्यस्याध्यापनस्य विचेतने धनुष्यसम्भवात् मुख्यार्थबाँधे- कार्यनिर्मापकत्वे सादृश्ये चाध्यापकत्वं सामान्यं धनुष्यारोप्यते । अक्लेशेनैव ते नतिं कारिता इत्यतिशयो व्यङ्गयः। स च सद्याप्रतीतिविषयत्वादगूढ एव । काव्यद्वयेऽप्यस्मिन् सारोपा गौणी चोपचारविचित्रता । वाच्यश्चार्थः स्वोपमेयभूतलक्ष्यार्थपरत्वादत्यन्ततिरस्कृतः । तदेवं यद्यपि भेदभूयस्त्वमुपचारस्य, तथापि तन्मूलस्यातिशयध्वनेः क्रोडीकृतापरप्रभेदमर्थान्तरसक्रान्तवाच्यात्यन्ततिरस्कृतवाच्यरूपं भेदद्वयमेवेति ॥ २९ ॥
तदेवं शब्दस्यौपचारिकत्वमभिधाय व्यञ्जकत्वं स्थापयतितेन व्यञ्जनवैचित्र्यमप्यास्ते शब्दगोचरम् । विदग्धत्वं कवीन्द्राणां यस्मिन् परिसमाप्यते ॥ ३० ॥
तो व्यञ्जनेनातिशयं शब्दः प्रत्याययति। तेन कारणेन शब्दगोचरं शब्दाअयं न केवलममियोपचारवैचित्र्यं व्यञ्जनवैचित्र्यमप्यास्ते इति प्रतीयते । यस्मिन् व्यञ्जनवैचित्र्ये कवीन्द्राणां विदग्धत्वं नैपुण्यं परिसमाप्यते परां काष्ठामधिरोहति । व्यञ्जनव्यापारभूषिता हि भारती कवीनां महन्माहात्म्यमुन्मुंद्रयति । पदाह" सरस्वती स्वादु तदर्थवस्तु "निःस्यन्दमाना महतां कवीनाम् । .
अलोकसामान्यमभिव्यनक्ति परिस्फुरन्तं प्रतिभाविशेषम् ॥ ७४ ॥" : १. समत्व। २ व. ०कश्रव्यत्व०, भ. ०क अव्यकत्व० ।३ प. ०पने वि । ४ भ. व. बाधि०। ५. धारोपवि०१६ प. सोप० । ७ व. तयोर्व्यः । ८ प. भूता । ९ व. मुभिवः । १. प.व. निस्वका
For Private And Personal Use Only