________________
Shri Mahavir Jain Aradhana Kendra
છું
www.kobatirth.org
अलङ्कारमहोद
चारेणोपचाराख्यव्यापारेण प्रतिपाद्यते प्रतिपत्तिगोचरतां नीयते । पावनत्वादिधर्मप्रतीतिरूपस्त्वतिशयो व्यक्त्यैव व्यञ्जनव्यापारेणैव प्रतिपाद्यते । कुतः क्रियान्तरस्य व्यापारान्तरस्यासद्भावादसत्वात् । यतः पावित्र्यादिधर्माणां प्रतीतौ नाभिधा प्रवर्तते । गङ्गादिशब्दानां तेष्वसङ्केतितत्वात् । नाप्युपचारस्तनिमित्तानां मुख्यार्थबाध- तत्प्रत्यासत्यतिशयप्रतीतीनामभावात् । न ह्यत्र लक्षणीयं तटादि मुख्योऽर्थः । नाप्यत्र प्रवाहादिवत् कश्चिद् बाधः । न चास्य पावित्र्यादिनाऽतिशयेन काऽपि प्रत्यासत्तिः । न चाप्यतिशये लक्ष्ये किश्चिदतिशयान्तरारोपणमस्ति । नाप्यत्र तादाविव गङ्गादिशब्दाः स्खलद्गतयः, तत् कथं पावित्र्यादयो लक्ष्याः ? एवं स्थितेऽपि यद्यतिशयभृतास्ते लक्ष्यन्ते, तद् केनाप्यतिशयेन सोऽप्यतिशयान्तरेणेत्य नवस्थाप्रसङ्गः । नापि पावित्र्याद्यतिशयरूपफलयुक्तमेव तटादिलक्षणाया विषय इति युक्तं विषय- फलयोरत्यन्तं भेदात् प्रत्यक्षादेः प्रमाणस्य घटादिर्विषयः फलं त्वर्थाधिगतिः प्राकट्यं संवितिर्वा । तदेवं फलविशिष्टेषु लक्षणलक्षितानामेव फलविशिष्टत्वप्रतीतिरिति पावनत्वाद्यतिशयो गङ्गादिशब्दैरभिधोपचाराभ्यां विलक्षणेन केनापि व्यापारेण प्रतिपाद्यत इति स्थितम् । स च व्यञ्जन- ध्वननादिशब्दवाच्योऽवश्यं मन्तव्यः । तत्प्रतिपाद्यश्चातिशयोऽत्र वस्तुमात्ररूप एव न रसालङ्काररूपः । स च क्वचिद् गूढः, क्वचिदगूढः । तत्र गूढो यथा
"
Acharya Shri Kailassagarsuri Gyanmandir
66 यथा लीलामभ्यस्यति गतिरुरः स्मेरति वचोऽ यधीते वैदग्धीं परिचरति लजामपि वपुः । स्मितश्रीरप्यास्यं तिलकयति ताराऽपि च तरत्यपाङ्गाङ्के शङ्के विकसति तथाऽस्यां मनसिजः ॥ ७२ ॥
11
,
अत्र पुनः पुनः प्रवृत्तिरूपस्याभ्यासस्य चैतन्यशून्यायां गतौ पुष्पधर्मस्य दलविघटन रूपस्य स्मेरत्वस्योरसि, प्राज्ञधर्मस्याध्ययनस्य वचसि चेतनारहिती लजां प्रतिसेवारूपस्य परिचरणस्य वपुषि, निपुणकार्यस्य तिलकस्य स्मितश्रियाम्, पयसि विधेयस्य तरणस्यापाङ्गाङ्के, कमलादिधर्मस्य विकासस्य मनोज न्मनि च सम्भवाभावात् मुख्यार्थ बाँधे क्रमशस्तल्लाभवन् विशालभवने मात्
१ प. ०ता ल०, व. ०स्ते व ल० । २ व. ० विवृतिर्यार्वा । ३ अ. ०क्षणल० । ४ व्यंजनादि० । ५ व. तरामपि चर० । ६ अ. ०हितं । ७ अ. ०बाधः, व. ० बोधः ।
For Private And Personal Use Only