________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शब्दवैचित्र्यवर्णनो नाम द्वितीयस्तरङ्गः । " ततः प्रहस्याह पुनः पुरन्दरं व्यपेतमीभूमिपुरन्दरात्मजः ।। गृहाण शस्त्रं यदि सर्ग एष ते न खल्वनिर्जित्य रघु कृती भवान् ।।७१॥"
जगत्प्रतीतस्यापि रघोः स्वनामोचारणस्थानुपयुज्यमानत्वेन मुख्यार्थबाधादाधाराधेयभावरूपाच्च सम्बन्धात् त्रिजगद्विजेतृत्वप्रतीतये रघुशब्दः पौरुपातिशयं लक्षयति । तत्रैव च स्ववाच्यं समयतीति । क्रियायोगे तु क्रियासम्बन्धरूपायां प्रत्यासत्तौ सत्यां पुनस्तत् पूर्वोक्तं द्वयं कचिदत्यन्ततिरस्कृतत्वं क्वचिदन्यार्थसङ्क्रान्तत्वमित्यर्थः । क्रियायोगे हि शब्दगतावयवशक्त्यनुसरणात् शब्दशक्तिमूलत्वं लक्ष्यमाणस्यार्थस्य । तत्र च वाच्यस्यार्थस्यात्यन्ततिरस्क्रिया। यथा पुरुषः पुरुष इति । अत्र हि द्वितीयः पुरुषशब्दः पौनरुत्याद् बाधितस्वार्थो विशिष्टजातीयं स्वमर्थमत्यन्तं तिरस्कुर्वन् क्रियायोगनिबन्धनेनोपचारेण पूरयितृत्व लक्षयति । यत्र तु निमित्तसद्भावाद् वाच्यस्यार्थस्याँपि विवक्षा स्यात् तत्रार्थान्तरसान्तत्वम् । यथा तक्षाऽयं मैत्रः । अत्र तक्षन्शब्दो मुख्यया वृत्या काष्ठतड्जातीयवाची। मैत्रस्यं च तजातीयत्वाभावाद् बाधितस्वार्थः सहशक्रियायोगात् सकलतद्धर्मप्रतिपत्तये मैत्रं लक्षयति । तत्र तक्षनशब्दो यद्यपि तक्षणक्रियाकर्तृत्वं क्रियायोगनिबन्धनया लक्षणयाऽवगमयति, तथापि काष्ठतड्जातीयं स्वार्थमप्युपमानतया प्रतिपादयतीति स्वार्थस्य विवक्षितत्वमेव । ततो यापमानस्योपमेयपरत्वाद् वाच्यस्यात्यन्ततिरस्कृतत्वं पूर्वाचार्यरुक्तम् । तथापि क्रियायोगविषये शब्दशक्तिमूलत्वेन लक्षणाप्रवृत्तौ काष्टतड्लक्षणो वाच्योऽर्थो विवक्षामपरित्यजन् विज्ञानातिशयशालित्वेऽर्थान्तरे सङ्कामतीत्यर्थान्तरसङ्क्रान्तत्वमेव । एवं 'महति समरे शत्रुध्नस्त्वम् ' इत्यादिष्यपि ज्ञेयम् ॥ २८ ॥ अथ या फलभूतः कोऽप्यतिशयः प्रोक्तस्तत्प्रतिपत्तिस्वरूपमाह
शब्दरत्रोपचारेण विषयः प्रतिपाद्यते ।
क्रियान्तरस्यासद्भावात् व्यक्त्यैवातिशयः पुनः॥२९॥ अवास्यामुपचारविचित्रतायामारोपस्य विषयस्तटादिः शब्दैगङ्गादिभिरुप
१ प. प्रविश्याह । २ . . णानु०।३ व. न २० । ४ प. स्वां वाच्यं संक्रा० । ५ व. लक्षमा । ६ व. तन वा० । ७. व. •स्य विवक्षापि । ८ अ. •स्य तज्जा०।९ व. ०क्तौ वा० । १० व. स्मृतः।
For Private And Personal Use Only