SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शब्दवैचित्र्यवर्णनो नाम द्वितीयस्तरङ्गः । ३७ समाधाराधेयभावरूपात् सम्बन्धाञ्जगद्विलक्षण श्रीनिवासित्वरूपमतिशयमावि - sng स्ववाच्यं विकासकमनीयत्वे सङ्क्रमयति । द्वितीयो यथा "वनश्रमरयति सहैव सहकारकाननैः सुरभिः । जागरयति कुसुमशरं सममेव च मधुकरक्वणितैः ।। ६८ ॥ "9 अत्राङ्कुरणं लतादिधर्मो जागरणं च विशिष्टचेतनधर्मस्ते च भुवनश्रियां मधुकरक्वणिते च न सम्भवत इत्यनुपयुज्यमानत्वाद् बाधितस्वार्थे छायातिशयधारित्वात् सङ्कोचपरित्यागाच्च सादृश्यानिखिलजन विलासोल्लासकत्वं जगतामप्यतिदुःसहत्वं चाँतिशयमाविष्कर्तुं प्रवृद्धिं कार्य-कारणाभिमुखत्वं च लक्षयन्ती वाच्यमत्यन्तं तिरस्कुरुतः । एवं द्विप्रकार एवोपचारः ।। २७ ।। अथार्थान्तरसङ्क्रान्तस्यात्यन्ततिरस्कृतस्य च वाच्यस्य विषयविभागमाह- सादृश्ये वैपरीत्ये च वाच्यस्यातितिरस्क्रिया । सम्बन्धेऽन्यार्थसङ्क्रान्तिः क्रियायोगे तु तद् द्वयम् ॥२८॥ सादृश्ये गुणसाम्परूपायां वैपरीत्ये वाच्यविपर्ययरूपायां च प्रत्यासन्तौ सत्यां वाच्यस्याभिधेयस्यार्थस्यातिशयेन तिरस्कारः । तत्र सादृश्ये यथा 66 मुखं विकसितस्मितं वशितवक्रिम प्रेक्षितं समुच्छलितविभ्रमा गतिरपास्तसंस्था मतिः । उरो मुकुलितस्तनं जघनमंसबन्धोध्धुरं तेन्दुवदनातनौ तरुणिमो मो मोदते ।। ६९ ।। " दलविघटनरूपस्य पुष्पधर्मस्य विकसितत्वस्य स्मिते, वशीभूतत्वस्य चेतनधर्मस्य वक्रिमणि, ऊर्ध्वलसनरूपस्य मूर्तधर्मस्य समुच्छलितत्वस्य विभ्रमेषु, मूर्त्तवस्तूचितस्यापास्तत्वस्य संस्थायाम्, अविकासरूपस्यै कलिकाधर्मस्य मुकुलितत्वस्य स्तनयोः स्कन्धबलावलिप्तत्वरूपस्य पुरुषधर्मस्यांसबन्धो धुरत्वस्यें जघने, १ व सवा० । २ अ ० श्रिया० । ३ व ०म ४ व. ०त्रांत० । ५ व ०पपद्यमा० । ६ व. ०च्छा० । ७ व. वाचिशयमाकिः कर्तुं प्रवर्ध । ८ व ०स्य वा० । ९ व ० योग्ये । १० प तवेन्दु० । ११ व. ०पस्य स० । १२ व. ०पशक० । १३ व. स्वांधाव० । १४ व. ०स्य प्रत्यक्षो० । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy