________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलङ्कारमहोदधौ सामान्यस्य परस्मै तटप्रभृतये यदर्पणं दानं तस्मिन् सति लक्षणलक्षिता लक्षणेनो. पलक्षणीभूतगङ्गादिशब्देन लक्षिता ज्ञापितेत्यन्वयात् । अनयोर्भेदयोर्लक्ष्यस्य लक्षकस्य चाभेदप्रतीतिरेव । यत् तु-'तटस्थे लक्षणो शुद्धा' इति मुकुलेनोक्तं व्याख्यातं च यथा- तटस्थे लक्षकार्थानुपरक्तत्वेन प्रतीयमाने लक्षणीये शुद्धा लक्षणा' तदसत् , यतोऽभेद एव श्रेयान् । तटादीनां हि गङ्गादिशब्दैः प्रतिपादने तत्वप्रतीतौ प्रतिपिपादयिषितातिशयसम्प्रत्ययः। भेदे तु गङ्गासम्बन्धमात्रप्रतीतौ गङ्गातटे घोष इति मुख्यशब्दाभिधानादुपचारस्य को विशेष इति । इदं च भेदद्वयं कैश्चिन्यूनगुणाधिकगुणयोरन्यस्मिन्नन्यस्य साधर्म्यप्रतिपत्यर्थमारोप उपचार इति लक्षणाक्रान्तेनोपचारेणाँमिश्रत्वादेव शुद्धमिति कथ्यते । अस्माभिः पुनरन्यस्मिनन्यस्यारोप उपचार इत्येतावदेवोपचारलक्षणमङ्गीकृतम् । स चोपचारः सर्वत्राप्यस्तीति सादृश्यात् प्रत्यासत्यन्तरेण युक्तत्वादेवास्य भेदद्वयस्य शुद्धत्वमभिहितम् । एवं च द्विभेदा गौणी चतुर्भेदा च शुद्धेति षकारोपचारविचित्रता ॥ २६ ॥
उपचारव्यापारे वाच्यार्थस्य काव्यावस्थेत्याहवाच्यार्थस्याविवक्षैव लक्षणायां भवेद् ध्रुवम् । स चार्थान्तरसङ्क्रान्तो यद्वाऽत्यन्तं तिरस्कृतः ॥२७॥ लक्षणायामुपचारवैचित्र्ये गङ्गायां घोष इत्यादौ वाच्यार्थस्य प्रवाहादेव॑वमविवक्षैव न वक्तुमिच्छा भवेत् । ततः स कथं स्यादित्याह-'स चेति' स च वाच्यो:
र्थोऽनुपयुज्यमानत्वादर्थान्तरे तटादिरूपे सङ्कामति स्वात्मानं तस्यों अर्पयती. त्यर्थः । यद्वाऽनुपयुज्यमानत्वादत्यन्तं तिरस्कृतरूप एव भवतीति ।तत्राद्यो यथा
*" ताला जायंति गुणा जाला ते सहिअएहिं धिप्पति ।
रविकिरणाणुग्गहिआई हुति कमलाई कमलाई ॥ ६७ ॥" अत्र द्वितीयकमलशब्दः पौनरुक्तयेनौनुपयुज्यमानत्वाद् बाधितस्वार्थः
* तदा जायन्ते गुणा यदा ते सहृदयैर्गृह्यन्ते ।
रविकिरणानुगृहीतानि भवन्ति कमलानि कमलानि ।। १ व. ०क्षणे । २ व. •स्थोत क्ष० । ३ व. ०यशु० । ४ व. ०शब्दः । ५ अ. वः प्रतिपा०। ६ व, नस्य । ७ अ. ०णमिः । ८ अ. नस्य । ९ अ.०पदार्थो५० । १० व. ०न्तरसंक्रांतोत्यंततिरस्कृत एव वा । ११ अ. प. तस्यार्प० । १२ भ. हवंति। १३ व. ०ब्दैः पौनरुक्त्यैऽनु। १४ प. नाप० ।
For Private And Personal Use Only