SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शब्दवैचित्र्यवर्णनो नाम द्वितीयस्तरङ्गः । ३५ निमित्तत्वमेव, न पुनर्लक्ष्यत्वमित्यभिसन्धाय साधारणगुणाश्रयणेन परार्थ एव लक्ष्यत इत्यपरे । अस्माकमप्ययमेव पक्षः । अत्र 'भेदद्वयेऽपि क्रमात् ताद्रूष्यप्रतीतिरूपः सर्वथैवाभेदावगमरूपञ्चातिशयो व्यङ्ग्यः । या पुनर्द्विप्रकाराऽपि सादृश्यादन्यस्याः सम्बन्ध - वैपरीत्य - क्रियायोगरूपायाः प्रत्यासत्तेः प्रवर्त्तते सा शुद्धेति प्रकीर्तिता कथिता । यैथा आयुर्धृतमायुरेवेदमित्यादि । अत्र कार्यकारणमावादिलक्षणात् सम्बन्धात् शुद्धा । इह द्वयोरपि भेदयोः क्रमादन्यवैलक्षण्येनाव्यभिचारेण च कार्यकारित्वादिरतिशयो व्यङ्गयः । कचित् तादर्थ्यादुपचारो यथा- इन्द्रार्था स्थूणा इन्द्रः १ । क्वचित् स्वस्वामिभावाद् यथा - राजकीयः पुरुषो राजा २ । क्वचिदवयवावयविभावाद् यथा - अग्रहस्त इत्यत्राग्रमात्रेऽवयवे हस्तः । सर्वाऽप्येषा शुद्धा । एवं वैपरीत्य - क्रियायोगाभ्यामपि शुद्धैव || २५ | शुद्धाया एव पुनर्भेदद्वयमाह- स्वार्थसिद्ध्यै पराक्षेपे साऽप्युपादानजा क्वचित् । परस्मै चार्पणे स्वस्य क्वापि लक्षणलक्षिता ॥ २६ ॥ साऽपि शुद्धा कुन्ताः प्रविशन्ति, यष्टयः प्रविशन्ति, मञ्चाः क्रोशन्ति, गिरिर्दत इत्यादौ कुन्तादिभिः स्वार्थसिद्ध्यै आत्मनः प्रवेशादिलक्षणस्वार्थसिद्धये परेषां स्वसंयुक्तपुरुषवृक्षादीनामाक्षेपे स्वीकारे सति क्वचिदुपादानजा, उपादानात् स्वसंयोगिग्रहणाञ्जातेत्यन्वर्थाश्रयणात् । अत्र भयङ्करत्व - मनुष्यनिचितत्व - वयेकमयत्वादिप्रतिपत्तिरतिशयः । गौरनुबन्ध्य इत्यादौ श्रुतिनोदितमनुबन्धनं कथं मे स्यादिति जात्या व्यक्तिराक्षिप्यते, न तु शब्देनोच्यते । 'विशेष्यं नाभिष गच्छेत् क्षीणशक्तिर्विशेषणे । ' इति न्यायादित्युपादानलक्षणा तँ नोदाहर्तव्या । नात्र कश्चिदतिशयः स्थाप्योऽस्ति । व्यक्त्यविनाभावित्वात् तु जात्यां व्यक्तिराक्षिप्यते । यथा क्रियतामित्यत्र कर्ता, कुर्वित्यत्र कर्म, प्रविश, पिण्डीमित्यादौ गृहं भक्षयेत्यादि च । तथा 'पीनो देवदत्तो दिवा न भुङ्क्ते ' इत्यत्र रात्रिभोजनं लक्ष्यते, तस्यार्थापत्तिविषयत्वादिति । तथा शुद्धैव गङ्गायां घोष इत्यादौ गङ्गादिशब्देन स्वस्य स्वकीयैस्य गङ्गात्वादि १. ये भे० । २ प. शुद्धा । ३ प तथा । ४ अ. न. व्य० । ५ प ० नूव० । ६ व. ० भिग० । ७ प. ०णा नो० । ८ अ वितु । ९ व. ०त्यादिव्य० । १० अ. १. व. ०नं न ल० । ११ व. ० दिस्वश० । १२१. व्यकस्य । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy