________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलङ्कारमहोदधौ लक्षणसदृशव्यापारजन्येनैवोपचारेण ताद्रूष्यप्रतिपत्तिरिति सम्बन्धादिभ्यवतHस्तां पूर्वोक्तां प्रत्यासत्तिं चतुर्विधां चतुःप्रकारामाहुः कथयन्तीति ॥२३॥
अथोपचारविचित्रताभेदानाहसारोपा लक्षणाऽऽरोपेविषयारोप्यभेदभृत् ।
आरोप्यापहृतेऽन्यस्मिन् सैव साध्यवसानिका ॥ २४ ॥ . लक्षणा प्रस्तुतोपचारविचित्रता । आरोपविषयो वाहीकादिरारोप्यं च मुख्यवृत्या गोत्वादिसामान्यम् । तचाश्रयाविनाभूतत्वादाश्रयं गोपिण्डादिकमाक्षिपतीति गुणवृत्त्या स एवारोप्यस्तयोर्भेदं सामानाधिकरण्येन पृथक् पृथक् प्रयोग या बिभर्ति सा सारोपेत्युच्यते । यथा गौर्वाहीका, आयुघृतं च। तथा आरोप्येण गोत्वादिसामान्याश्रयेणापहृते निगीणेज्यस्मिन्नारोपविषये वाहीकादौ सति सैवोपचारविचित्रता साध्यवसानेति कथ्यते । यथा गौरेवायम् , आयुरेवेदम् ॥२४॥
द्विप्रकाराऽपि सादृश्याद् या सा गौणीति गीयते ।
प्रत्यासत्तेस्तु याऽन्यस्याः सा शुद्धति प्रकीर्तिता ॥२५॥ द्विप्रकाराऽपि सारोपा साध्यवसाना च या सादृश्याद् गुणसाम्याआयते सा गुणेभ्य आगतत्वाद् गौणीति गीयते कथ्यते । यथा गौर्वाहीका, गौरेवायम् । अत्र जाड्य-मान्यादिगुणसादृश्यादुपचारः। ते च स्वार्थसहचारिणो गुणा जाड्यमान्यादयो लक्ष्यमाणा अपि गोशब्दस्य पराभिधाने प्रवृत्तिनिमित्तत्वमुपयान्तीति केचित् । अत्र गोशब्दस्य गोत्वं स्वार्थस्तेन सह गोपिण्डे चरन्तीति स्वार्थसहचारिणः । तांश्च गोपिण्डगतान् गुणान् लक्षयित्वा तत्सादृश्याद वाहीकगुणान् लक्षयन् गोशब्दो वाहीकं लक्षयतीत्यर्थः । अत्र गोशब्दप्रवृश्या गोत्वसहराणां गुणानां लक्ष्यमाणत्वम् । लक्ष्यमाणानां च गोशब्दप्रवृत्तिनिमिचस्वमित्यन्योन्याश्रयमाशङ्कमानाः स्वार्थसहचारिगुंणाभेदेन परार्थगता गुणा एव लक्ष्यन्ते । न तु परार्थोऽभिधीयते' इत्यन्ये । अत्र गोशब्देनेति शेषः । तथाऽभिधीयते लक्षणाव्यापारणेति शेषः । गौणलक्षणायां गुणानां
व. भ. ०त्रभे० । २ व. ०प्यवि० । ३ ५. ०यवि० । ४ अ. क् प्र० । ५ व. दिसा। प. गौणेति । ७ व. लक्ष० । ८. चारि० । ९ व. ०णा च । १०. •रिणो भे।
For Private And Personal Use Only