________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
शब्दवैचित्र्यवर्णनो नाम द्वितीयस्तरङ्गः ।
३३
इत्याह- अतिशयाय पावनत्वादिधर्मप्रतिपत्तिरूपं ताद्रूप्यप्रतिपत्तिरूपं च केमध्यतिशयमाविष्कर्तुम् । एतदेवोपचारस्य फलम्, न हि निष्फला प्रवृत्तिः प्रेक्षावतामिति । सेयं प्राप्तप्रसिद्धिरुपचारविचित्रता । उपचरणमन्यस्मिन्नन्यस्यारोपणग्रुपचारः स च लक्षणाऽपरपर्यायः शब्दस्य व्यापारविशेषस्तेन विचित्रता । तत्स्वरूपान्तरमाह - ' रूपकेति ' या रूपकप्रभृतीनलङ्कारान् जनयति । रूपकापह्नुत्यतिशयोक्तिप्रभृतयो ह्यलङ्कारा उपचारमूला इति । रूढिलक्षणा त्वभिधातुम्यैव, तेनात्र नोदायित इति ॥ २१-२२ ॥
44
Acharya Shri Kailassagarsuri Gyanmandir
अथ प्रत्यासत्तिभेदानाह-
अभिषेयेन सम्बन्धत् सादृश्याद् वैपरीत्यतैः 1 क्रियायोगाच्च तामाहुः प्रत्यासत्तिं चतुर्विधाम् ॥ २३ ॥
अभिधेयेन मुख्यार्थेन सम्बन्धात् समीप - समीपिभाव - धार्य-धारकभावकार्यकारण भाव - तादर्थ्य स्व-स्वामिभावादिरूपात् । यथा गङ्गायां घोष इत्यादिषु समीपसमपिभावादिसम्बन्धः । तथाऽभिधेयेनैव सादृश्याद् गुणसाम्यरूपात् । यथा गौर्वाहीक इत्यादिषु जोड्थ - मान्द्यादिगुणसाम्यम् । तथाऽभिधेयेनैव वैपरीत्यतो विपर्ययरूपात् । यथा अभद्रमुखे भद्रमुख इत्यादिषु प्रत्यक्षादिप्रमाणसिद्धं वैपरीत्यमस्त्येव । तथाऽभिधेयेनैव क्रियायोगात् संदृशव्यापारसम्बन्धात् । यथा अतक्षा तक्षा इत्यादिषु काष्ठतक्षणरूपसंदृशव्यापारसम्बन्धः ।
यथा वा
पृथुरसि गुणैर्मूर्त्या राम्रो नलो भरतो भवान् महति समरे शत्रुस्त्वं तथा जनकः स्थितेः ।
इति सुचरितैर्मूर्तीर्विभ्रश्चिरन्तनभूभृतां
कथमसि न मान्धाता देव ! त्रिलोकविजय्यपि ॥ ६६ ॥ "
अत्र पृथुप्रभृतिशब्देषु श्लेषसमुद्दीपितेन गुणसाम्यनिबन्धनेनोपचारेण वर्ण्यमानस्य पुराणभूपालरूपधारकत्वम् । शत्रुघ्न - जनकशब्दयोस्तु घात - जनन
- १व. किम० । २ व. ०न्नान्य० । ३ व शब्दः सव्या० । ४ व. रूपल० । ५ प. युगलम् । ६ अ. ०वकार्य ० । ७ पं. ०कभा० । ८ प. ० सामान्यरू० । ९ अ. मांयजा ० | १० व. सादृश्य ० । ११ व ०कस्थि० ।
For Private And Personal Use Only