SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भलारमहोदधौ " किन्त्वस्ति काचिदपराऽपि पदानुपूर्वी यस्यां न किञ्चिदपि किञ्चिदिवावभाति । आनन्दयत्यथ च कर्णपथं प्रयान्ती चेतः सताममृतदृष्टिरिव प्रकृष्टा ॥६॥" तथा यत्र यस्मिन्नानन्दामृतकसरसि सहृदयानां मनः क्षणं मञ्जतीव मग्नमिव । क्षणं सुधया स्नातीव पीयूषारब्धस्नानमिव । क्षणं माद्यतीवात्मविस्मृत्या जातोन्मादमिव । क्षणं विलीयत इव नि:स्पन्दत्वाद् विलीनमिव भवतीत्येवम्भूतो हि कवेर्वाक्यविन्यासो बन्धशब्दाभिधेयः कवितामलङ्करोति । तदपि शब्दवैचित्र्यमेव । अत्रोदाहरणं यथा-- " नेत्रेन्दीवरिणी मुखाम्बुरुहिणी भ्रूवल्लिकल्लोलिनी बाहुद्वन्दूमृणालिनी यदि पुनर्वापी भवेत् सा प्रिया । तल्लावण्यजलावगाहनजडैरङ्गैरनङ्गानल ज्वालाजालमुचस्त्यजेयमसमाःप्राणच्छिदो वेदनाः॥६५॥" इति॥२०॥ एवमभिधामूलं शब्दवैचित्र्यमभिधायोपचारमूलमाहकथञ्चिल्लब्धबाधस्य तत्प्रत्यासत्तिशालिनि । मुख्यस्यार्थस्य सामान्यमन्यार्थेऽतिशयाय यत् ॥२१॥ शब्देनारोप्यते सेयमुपचारविचित्रता। रूपकादीनलङ्कारान् या प्रसूते रसोत्तरान् ॥२२॥ गङ्गायां घोष इत्यादौ गौर्वाहीक इत्यादौ च मुख्यस्यार्थस्य प्रवाहादेोपिण्डादेश्च कश्चिद् घोषायधिकरणत्वासम्भवादिना सास्नादिमस्वाद्यदर्शनाच प्रत्यक्षादिप्रमाणादिना केनापि प्रकारेण लब्धवाधस्य शब्देनाभिधातुमशक्य - त्वाद् बाधितस्वरूपस्य यत् सामान्यं गङ्गात्वादिलक्षणं गोत्वादिलक्षणं च तदन्यस्मिमर्थे तटादिरूपे वाहीकादिरूपे च शब्देन गङ्गादिना गवादिना च यदारोप्यते समुपचर्यते । कीदृशे पुनरन्यस्मिन्नर्थे तत्प्रत्यासत्तिशालिनि तस्य मुख्यस्यार्थस्य या प्रत्यासत्तिः सम्बन्धादिरूपा निकटता तया शालमाने शोभमाने। न ह्यप्रत्यासने क्वाप्युपचारः प्रवर्तते, यत्र तत्राप्युपचारप्रसङ्गात् । किमर्थमारोप्यत १ भ. प. वृष्टिः । २ प. चतुर्भिः कुलकम् । ३ प. यामलम् । ४ प. प्रमाणेन । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy