SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org शब्दवैचित्र्यवर्णनो नाम द्वितीयस्तरङ्गः । अथ बन्धमाह शाणोल्लिखित माणिक्यकान्तिकेलिपदं पदम् । अर्धनारीश्वरस्पर्द्धा यत्र संघट्टनक्रमः ॥ १७ ॥ Acharya Shri Kailassagarsuri Gyanmandir गिरां किमपि लावण्यं तरङ्गयति यः परम् । वस्तु किञ्चिदिवाभाति न किञ्चिदपि यद्वशात् ॥ १८ ॥ मज्जतीव क्षणं चेतः स्नातीव सुधया क्षणम् । माद्यतीव क्षणं यत्र विलीयत इव क्षणम् ॥१९॥ अमन्दतद्विदानन्दकन्दकन्दलनाम्बुदः । astra वाक्यविन्यासः कवेर्बन्ध इति स्मृतः ॥२०॥ १ व. कृपया । असौ कोऽप्यनिर्वाच्यमहिमा कवेः प्रतिभा पल्लवितवर्णनानिपुणस्य वाक्यविन्यासो वाक्यस्य पदसमुदायरूपस्य यो विन्यासो विशिष्टमितरवैलक्षण्येन न्यसनं स बन्ध इति स्मृतः पूर्वैराम्नातः । कीदृशो वाक्यविन्यासः १ अमन्देति अमन्द उल्लाघो लक्षणया स्फूर्तिमान् यस्तद्विदानन्दस्वद्विदां बन्धसौन्दर्यवेदिनामानन्दः स एव कन्दः प्रथमं स्तम्बादिकारणं । तस्य कन्दलनमकुरोद्भेदस्तस्याम्पुदः पयोदः । वाक्यविलासो हि सहृदयाह्लादक एव काव्योपकारी । पुनः कीदृश इत्याह- 'शाण' इति यत्र यस्मिन् पदं वर्तते । कीदृशं शाणायामुल्लिखितमुत्तेजितं यन्माणिक्यं प्रधानरत्नं तस्य कान्तिरौज्ज्वल्यं तस्याः केलिपदं क्रीडाssस्पदम् । काव्ये हि पदमुज्ज्वलमेव कार्यम् । तथा यत्र संघट्टनक्रमः पदसन्दर्भक्रमः । कीदृशः १ अर्धनारीश्वरस्पर्द्धा अर्धनारीश्वरेण स्पर्द्धते नितरामलक्ष्यसन्धित्वात् । पदयोजना ह्येकपदवत् प्रतिभातीव विधेया। तथा यः परं प्रकृष्टं गिरां वाचां लावण्यं कान्तिविशेषः किमप्यपूर्व तरयति पुष्णाति । तथा यद्वशाद् यत्पारतन्त्र्याद् वस्तु काव्यार्थरूपं न किश्चिदप्यकाम्यमपि किश्चिदिन काम्यमिवाभाति शोभते । यदाह २ प. किंविशिष्टो । ३ अ.व. ०भांतीति । For Private And Personal Use Only ३१
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy