________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलङ्कारमहोदधौ ___अनयोरचेतनानामपि वाष्पनिवहादीनां च लतानां च चेतनव्यवहाराध्यारोपाद् विरहव्यथाऽतिशयेन नायिकायाः स्वयमकिश्चित्करत्वं लतानां च कपार्द्रत्वं क्रमात् प्रतीयते ।
तथासुप्-तिव्युत्पत्तिजं किञ्चित् किश्चिदितरत् सुपा स्यादीनां तिडा त्यादीनां च या व्युत्पत्तिर्विशेषविधिरूपा तस्याः सकाशाजातम् ।
तत्र सुपां यथा" तवाहतो नांगमनेन तृप्तं मनो नियोगक्रिययोत्सुकं मे ।
अप्याज्ञया शासितुरात्मनो वा प्राप्तोऽसि सम्भावयितुं वनान्माम् ॥६१॥" अत्र नियोगक्रिययेत्युत्सुकशब्दयोगादधिकरणे तृतीया ।
तिहां यथा" पुरीमवस्कन्द लुनीहि नन्दनं मुषाण रत्नानि हरामराङ्गनाः ।
विगृह्य चक्रे नमुचिद्विषा वशी य इत्थमस्वास्थ्यमहर्निशं दिवः ॥६२॥" अत्र चक्ररूपसामान्यार्थधातुसम्बन्धिधात्वर्थानां समुच्चयेऽतीतकाले हिप्रत्ययः।
यथा च"जहातु 'नैनं कथमर्थसिद्धिः संशय्य कर्णादिषु तिष्ठते यः।
असाधुयोगा हि जयान्तरायाः प्रमाथिनीनां विपदा पदानि ।।६३॥"
अब स्थेयोपदिष्टनिर्णयवृत्तस्तिष्ठतेरात्मनेपदम् । एवमन्यापि सुप्-तिव्युत्पत्तिज़ैया ।
तथा
किञ्चिद् बन्धनिबन्धनम् ॥ १६ ॥ किश्चिदन्यद् बन्धो गुम्फविशेषः स निवन्धनं कारणं यस्य तद् बन्धनिबन्धनं शब्दस्य वैचित्र्यम् । बन्धस्वरूपं चानन्तरमेव वक्ष्यते । १६॥
१ व. नाभिगमेन । २ अ. प. हर्दिवं । ३ अ र्थानां स० । ४ प. चैनं ।
For Private And Personal Use Only