SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मलकारमहोदधौ र तथाअपरं प्रत्ययान्तेभ्यः प्रत्ययान्तरनिर्मितम् । अपरं किमपि प्रत्ययान्तेयः शब्देभ्यः परं यत् प्रत्ययान्तरं तेन निर्मितम् । यथा"लीनं वस्तुनि येन सूक्ष्मसुभगं तचं गिरा कृष्यते __निर्मातुं प्रभवेन्मनोहरमिदं वाचैव यो वा बहिः । वन्दे द्वावपि तावहं कविवरौ वन्देतरां तं पुन यो विज्ञातपरिश्रमोऽयमनयो रावतारक्षमः ॥ ५३॥" अत्र वन्देतरामिति त्यादिप्रत्ययात् तराम्प्रत्ययः । यथा वा" पदं सपदि कस्य न स्फुरति शर्करापाकिम रसालरससेकिम भणितिवैभवं कस्य न। तदेतदुभयं किमप्यमंतनिर्झरोद्गारिमै स्तरङ्गयति यो रैसै स पुनरेक एव कचित् ॥ ५४ ॥" अत्र भावप्रत्ययान्तेभ्य इमप्रत्ययः। एवं व्यात्युक्षी-साराविणादयोऽपि ज्ञेयाः॥ तथामागमोन्मीलितं किञ्चित् किश्चिदन्यन्मागमोन्मीलितमाविष्कृतम् । यथा"जाने सख्यास्तव मयि मनः संभृतस्नेहमस्मा दित्थम्भूतां प्रथमविरहे तामहं तयामि । वाचालं मां न खल सुभगम्मन्यभावः करोति प्रत्यक्षं ते निखिलमचिरात् भ्रातरुक्तं मया यत् ।। ५५॥" यथा च" भुजविटपमदेन व्यर्थमन्धम्मविष्णुर्घिगपसरसि चौरकारमाक्रुश्यमानः। त्वदुरसि विदधातु स्वामपस्कारकेली कुटिलकरजकोटिकूरकर्मा जटायुः॥५६॥" 1 प. ०भ्यः परं । २ व. ०व्यस्त । ३ अ. रसः । ४ व. • प्रा० । ५ व. ०त्वाम० । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy