SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शब्दवैचित्र्यवर्णनो नाम द्वितीयस्तरङ्गः । ___ उपसर्गयोगे यथा" भीष्मग्रीष्मप्रगुणितवपुस्तापनि पहेतो वृक्षं वृक्षं प्रतिविनिहिता दृष्टयः पान्थसाथैः । छायाभोगात् कवलितवता चण्डरोचिःप्रचार किन्तु ध्वस्तो वटविटपिना क्लेशलेशोऽप्यमीषाम् ॥ ३९॥" अत्र वृक्षे वृक्षे विनिहिता इत्यधिकरणप्राप्तौ प्रत्युपसर्गयोगे वीप्सायां द्वितीया। प्रतेश्चात्र योग्यतयोपसर्गत्वम् । उभययोगे यथा" अध्यासामासुरुत्त(तु)ङ्गहेमपीठानि यान्यमी । तैरूहे केसरिक्रान्तत्रिकूटशिखरोपमो ॥ ४०॥" अत्र धातूपसर्गयोगे हेमपीठानीत्याधारस्य कर्मत्वम् । एवमन्यदपि ज्ञेयम् । तथाकिञ्चिदप्यव्ययीभावसमासप्रथितोदयम् ॥ १२ ॥ किश्चिदप्यपरमव्ययीभावसमासेन रचितोदयम् । यथा" पारेजलं नीरनिधेरपश्यन् मुरारिरानीलपलाशराशीः। वनावलीरुत्कलिकासहस्रप्रतिक्षणोत्कूलितशैवलाभाः ॥४१॥" मध्येसौधमग्रेवणमित्याद्यप्यनुसतव्यम् ॥१२॥ तथाकिमप्यलुप्समासोत्थम् किमप्यन्यदलुप्समासादुत्तिष्ठति । यथा" त्वं तास्ताः स्मृतवान् अचो दशतयोस्त्वत्प्रीतये यज्वभिः स्वाहाकारमुपाहितं हविरिह त्रेतामिराचामति । त्वां क्षीरोदजलेशयं ऋतुलिहः पृथ्वीमवातीतरन् दुर्वृत्ता दशकन्धरप्रभृतयो निग्राहितारस्त्वया ॥४२॥" १५. गुणीत । २ प. ०पमाः। ३ व. कर्मक० । ४ अ. •दप० । ५ व. किम० 1 ६ व. ०लाश । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy