SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अलङ्कारमहोदधौ " चापाचार्यत्रिपुरविजयी कार्तिकेयो विजेयः शस्त्रव्यस्तः सदनमुदधिभूरियं हन्तकारः ।। अस्त्येवैतत् किमु कृतवता रेणुकाकण्ठवाधा बद्धस्पर्द्धस्तव परशुना लज्जते चन्द्रहासः ।। ३५ ॥" यथा वा" याच्यादैन्यपरिग्रहप्रणयिनी नेवाकवः शिक्षिताः ... सेवासंचलितः कदा रघुकुले मौलौ निबद्धाञ्जलिः । सर्व तद् विहितं तदप्युदधिना नैवोपरोधः कृतः पाणिः सम्प्रति मे हठात् किमपरं प्रष्टुं धनुर्वाञ्छति १ ॥३६॥" अनयोश्चन्द्रहासस्य पाणेश्च करणभूतस्यापि कर्तृत्वाध्यारोपः ॥११॥ तथा धातूपसर्गयोर्योगात् कारकोन्यत्वजं परम् । परं किश्चिद् धातुयोगाईंपसर्गयोगादुभययोगाच्च कारकेभ्योऽन्यः सम्बधादिस्तस्य भावस्तत्वं तस्माजातम् , यदि वा कारकस्यान्यत्वं कारकान्तरत्वं तस्माजातम् । तत्र धातुयोगे यथा " प्रवृत्त एव स्वयमुज्झितश्रमः क्रमेण पेष्टुं भुवनद्विषामास । तथापि वाचालतया युनक्ति मां मियस्त्वदाभाषणलोलुपं मनः॥३७॥" .. अत्र पिषधातुयोगे कर्मत्वाभावाँद् भुवनद्विषामित्यत्र सम्बन्धे षष्ठी । _यथा च" मनः समाधिस्थिरतामुपेत्य किमङ्ग ! तस्याः स्मरसि प्रियायाः १ । एवं हि लक्ष्मी(क्ष्यी)भवसि प्रकामं स्मरस्य चापार्पितसायकस्य ॥३८॥" अत्र स्मृधातुयोगे प्रियाया इत्यत्र पूर्ववत् षष्ठी। ११. शब्दव्य० । २ भ. मूलौ निबद्धो । ३. व. मोहवान्। ४ व. स्रष्टुं । ५५. ०णान्य० । ta.०भ०। ६ अ. ०च का०। ७. वद्विषा०। ८ प. अ. •धिः स्थि. ९ अ. लक्षीभ० । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy