________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शब्दवैचित्र्यवर्णनो नाम द्वितीयस्तरङ्गः ।
यथा वा" ते रत्नाकरसीमभूतलमिलद्भपालमालस्थल
स्वेदक्षालितपादपबरजसस्तस्यान्ववायेऽभवन् । दुवोरासुरचक्रविक्रमकथासम्भ्रान्तजम्भान्तक
प्राणत्राणपवित्रपौरुषकलापात्रं धरित्रीभुजः ॥ ३२॥" अत्र लिङ्गसङ्ख्ययोयोरपि भेदः ॥ १० ॥
तथासम्भवेऽप्यन्यलिङ्गस्य स्त्रीलिङ्गविधिजं परम् । परं किञ्चित् सम्भवत्यप्यन्यस्मिन् लिङ्गे स्त्रीलिङ्गविधानजनितं स्त्रीति नाम्नोऽप्यानन्ददायित्वात् । यथा--
" प्रवृद्धतापाश्चिरविप्रयोगतो मुहुर्वहन्ती जनशोचनीयताम् । श्लिष्यन्ति सर्वाङ्गममी महीभृतां तटीरिदानीमुचितं पयोमुचः॥३३॥" अन सत्यपि त्रिलिङ्गत्वे तटशब्दस्य स्त्रीलिङ्गनिर्देशो नायकव्यवहारव्यञ्जकत्वाञ्चमत्कारी।
यथा च" मृग्यश्च दर्भाखरनियंपेक्षास्तवागतिझं समबोधयन् माम् ।
व्यापारयन्त्यों दिशि दक्षिणस्यामुत्पक्ष्मराजीनि विलोचनानि ॥३४॥" अत्र मृगाश्चेति सम्भवत्यपि कृपामयत्वख्यापनाय मृग्यश्चेत्युक्तम् ।
तथा-- अमुख्य कारके मुख्याध्यारोपाध्यासि किञ्चन ॥ ११ ॥ परममुख्य कारके करणादौ मुख्यस्य कर्तुरध्यारोपस्तत्त्वव्यपदेशस्तमध्यास्त इत्येवंशीलम् । यथा१५. तथा । २ प. ०ण्यस्मिन् । ३ व. ०नी श्लि०। ४ व. यन्तो दि०।
For Private And Personal Use Only