SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . अलकारमहोदधौ इत्याख्याय प्रणयमधुरं कान्तया योज्यमाने चूडाचन्द्रे जयति सुखिनः कोऽपि शर्वस्य गर्वः ॥ २८ ॥" अत्र शर्वगर्वस्य वचनागोचरोत्कर्षशालित्वं कोऽपीत्यनेन संवृतं सौन्दर्यमधिरोहति । प्रातिपदिकोदाहरणं यथा" दुर्वचं तदथ मा व(च)भून्मृगस्त्वय्यसौ यदकरिष्यदोजसा । नैनमाशु यदि वाहिनीपतिः प्रत्यपत्स्यत शितेन पत्रिणा ॥२९॥" अत्र त्वामहनिष्यदिति महापातकमिव वक्तुमयुक्तमेवेति दुर्वचपदेन संवृतं नितरां कमनीयम् । यथा च"तत् तादृशं कथमुदेति मनुष्यलोके तेजोऽद्भुतं निरभिसन्धि न तावदेतत् । तान्येव चास्य चरितानि दशाननस्य हा वत्स! शान्तमथवा दशकन्धरोसि ॥३०॥" अत्र हा वत्सेत्यादिना किमप्यमङ्गलं वक्तुमारभ्य शान्तमथवेत्यादिप्रातिपदिकैः संवृतं वैचित्र्यमुन्मुद्रयति । सामानाधिकरण्येऽन्यद् भिन्नसङ्ख्यान-लिङ्गयोः॥१०॥ अन्यदपरं सङ्ख्यान-लिङ्गयोमिन्ने सङ्ख्याने लिङ्गे च सङ्ख्यान-लिङ्गे वा ययोः शब्दयोस्तौ तथा तयोः सामानाधिकरण्ये तुन्याधिकरणत्वे । यथा-- " द्विरुक्तिः क्षीरोदः स्फुरति पुनरुक्तं हिमगिरिः समस्या कैलाश(स)स्तुहिनरुचिरोचींषि यमकम् । तवारातिवातद्विरदकुलशाल ! यशसा मनुप्रासः कार्शत्रिपुरहरहासप्रभृतयः ॥ ३१ ॥" अत्र पूर्वत्रये लिङ्गयोरुत्तरद्वये तु वचनयोर्भेदः । १व. शनिपु० । २ प. रत्रये । ३ प. नभे० । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy