SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org शब्दवैचित्र्यवर्णनो नाम द्वितीयस्तरङ्गः । २१ किश्चिदन्यद्विशेषणस्य स्फीत्या सामर्थ्येन विशेष्य प्रतीतिं करोतीति । यथा - "वि (व) शिष्टो (ष्ठो) क्तैर्मन्त्रैर्दधति जगतामाभ्युदयिकीं धुरं सम्प्रत्येते दिनकरकुलीनाः क्षितिभुजः । गृहे येषां रामादिभिरपि कलाभिश्चतसृभिः स्वयं देवो लक्ष्मीस्तन विषमवारी गजपतिः ॥ २५ ॥ " अत्र च लक्ष्मीस्तनेत्यादिविशेषणं स्वसामर्थ्यान्नारायणप्रतीतिं तनोतीति ॥९॥ तथा - सर्वनामादिसंस्थाप्यसंवृतिस्थापितं परम् । परं किञ्चित् सर्वनाम्नाssदिशब्दात् प्रातिपदिकेन वा संस्थायावस्थापनीया याऽसौ संवृतिः संवरणं तया स्थापितं निर्मितम् । यथा " याते द्वारवतीं तदा मधुरिपौ तद्दत्तझम्पानतां कालिन्दीतट रूढवज्जुललतामालम्ब्य सोत्कण्ठया । तद् गीतं गुरुबाष्पगद्गगगलचारस्वरं राधया येनान्तर्जलचारिभिर्जलचरैरप्युत्कमुत्कूजितम् ॥ २६ ॥ 99 Acharya Shri Kailassagarsuri Gyanmandir अत्र राधायाः प्रेमोत्कण्ठाभरस्तच्छब्देन संवृत्य कार्यद्वारेण प्रकाशितश्वारुत्वमुन्मीलयति । 66 यथा च " निद्रानिमीलितदृशो मदमन्थराया नाप्यर्थवन्ति न च यानि निरर्थकानि । अद्यापि मे वरतनोर्मधुराणि तस्यास्तान्यक्षराणि हृदये किमपि ध्वनन्ति ||२७|| " अत्र स्वानुभवसंवेद्यमपि वस्तु वक्तुमशक्यमपि किमपीति पदेन संवृतं चमत्कुरुते । यथा वा - नृत्तारम्भाद् विरतरभसस्तिष्ठ तावन्मुहूर्त यावन्मौलौ श्लथमचलतां भूषणं ते नयामि । १ व. ०प्रीतिं । २ प. ० प्याऽनवस्थापनीयोऽसौ । ३ अ •तनौ म० । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy