SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अलङ्कारमहोदधौ रघुपतिगुणक्रीतीमेतामवेहि जगत्त्रयीं विपरिणमते दौर्जन्यं तु प्रभुत्वपदेन नः ॥ २० ॥" अनयोर्विलुप्ती-क्रीतीति च विशेषलक्षणात् स्त्रियां डीप्रत्ययान्तौ । ___ तद्धितप्रत्ययाद् यथा" उत्तालतालीवनसम्प्रवृत्तसमीरसीमन्तितकेतकीकाः। आसादिरे लावणसैन्धवीनां सेनाचरैः कच्छभुवा प्रदेशाः ॥ २१ ॥" अत्र लावणसैन्धवीनामित्यत्रेदमर्थेऽण् । यथा वा" विन्ध्यस्य संस्तम्भयता महाद्रेनिःशेषपीतोज्झितसिन्धुनाथः । प्रीत्याऽश्वमेधावभृयामूर्तेः सौस्नातिको यस्य भवत्यगस्त्यः ॥२२॥" अत्र पृच्छतीत्यर्थ इकण् ॥ ८॥ एवमन्यप्रत्ययोद्भवमपि बोद्धव्यं तद् यथाकर्तृत्यागात् क्रियानिष्ठैः कृतमन्यद् विशेषणैः । तादृविच्छिन्त्यभावात् कर्तारं परिहृत्य क्रियामाश्रितैर्विशेषणैरन्यद् विहितम् । यथा" क्षिप्तं पुरो न जगृहे मुहुरिक्षुकाण्डं नापेक्षते स्म निकटोपगतां करेणुम् । सस्मार वारणपतिर्विनिमीलिताक्षमिच्छाविहारवनवासमहोत्सवानाम् ॥२३॥" पथा वा" इत्युद्गते शशिनि पेशलकान्तदूतीसंलापसंचलितलोचनमानसाभिः । अग्राहि मण्डनविधिविपरीतभूषाविन्यासहासितसखीजनमङ्गनाभिः ॥२४॥" यथाकिश्चिद्विशेषणस्फीत्या विशेष्यप्रतिपत्तिजम् ॥ ९॥ १ प. अ.कत्समु०।२ अ. प्रीताश्व० । ३ व. न्यथा प्र०।४ प. व्यं य० ।५३. निष्ठे। ६ व.अ. ०क्षा०। ७ अ. कान्ति। For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy