SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १८ www.kobatirth.org Hoङ्कारमहोदधौ यथा वा- "क्रीडारसेन रहसि स्मितपूर्वमिन्दोर्लेखां विकृष्य विनिवध्य च मूर्ध्नि गौर्या । किं शोभिताऽहमनयेति पिनाकपाणेः पृष्टस्य पातु परिचुम्बनमुत्तरं वः ॥ ११॥” Acharya Shri Kailassagarsuri Gyanmandir अत्र चुम्बनादन्यन्न समर्थमुत्तरमिति चुम्बिप्रकृतेरेव वैचित्र्यावहत्वम् । तथा प्रकरणादिसहाया काचिन्नामप्रकृतिरपि वैचित्र्यकारिणी । यथा— 46 “ नाभियोक्तुमनृतं त्वमिष्यसे केस्तपस्विविशिखेषु चादरः । सन्ति भूभृति हि नः शराः परे ये पराक्रमवसूनि वज्रिणः ॥ १२ ॥ " अत्र सत्यपि वज्रे शक्रस्य त एव पराक्रमवसूनीति शराणामुत्कर्ष द्योतयन् वज्रशब्दो वैचित्र्यकृत् । तथा- धातु - नामात्मनस्तस्याः किमपि प्रत्ययोद्भवम् ॥ ८ ॥ प्रकृतिर्द्विधा धातुरूपा नामरूपा च । तस्या द्विरूपाया अपि किमपि किञ्चित् प्रत्ययादुद्भवतीति । तत्र धातुरूपाया आख्यातप्रत्यया यथा असमसमरसम्पल्लम्पटानां भटानामवधिरवधि युद्धे येन हम्मीरवीरः । सकिल सकलदूतक्षत्र नक्षत्र लक्ष्मी हरण किरणमाली कस्य न स्यान्नमस्यः १ ॥ १३ ॥ यथा वा- " सोपवादमुपशान्तविचारं सानुतर्षमनुतर्षपदेन । ते मुहूर्तमथ मूर्त्तमपीप्यन् प्रेममानमवधूय वधूः स्वाः ॥ १४ ॥” अनयोर्द्वयोरपि हन्तेः पाययतेश्वाद्यतन्यां वधि - पीप्यादेशौ । कृत्प्रत्ययाद् यथा--- " दिशः प्रियाः स्वा इव कान्तिमद्भिरलङ्करिष्णुर्नवमौक्तिकौघैः । देव: प्रभाणामधिभूर्विवेश नीरेशितुर्मध्यमुदग्ररागः ॥ १५ ॥ " १ अ. ०पाणिः । २ अ. यस्त० । ३ प ० शिशेषु, व. ०शेषेषु । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy