SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शब्दवैचित्र्यवर्णनो नाम द्वितीयस्तरङ्गः । १७ किन्त्विति व्यतिरेके सन्त्येव तुल्यार्था भूयांसः शब्दाः । किं पुनस्तेषु मध्ये यस्य विवक्षितार्थाभिधायित्वं तस्यैव वैचित्र्यरामणीयकम् स एव च काव्याङ्गम् । यथा— " द्वयं गतं सम्प्रति शोचनीयतां समागमप्रार्थनया कपालिनः । कला च सा कान्तिमती कलावतस्त्वमस्य लोकस्य च नेत्रकौमुदी ॥९॥ " अत्रैकार्थाः पिनाकिप्रभृतयः शब्दाः सन्त्येव परं तानपाकृत्य कविना कपालिशब्द एवोपनिबद्ध इति विवक्षितार्थाभिधायित्वात् तस्यैव वैचित्र्यम् । शम्भुनिन्दा चात्र कविना विवक्षिता, तां चायमेव परिपूर्णा ब्रूते इति ||६|| अथ शब्दगतस्य कस्यचिद् वैचित्र्यस्यातिदेशमाह - दोषहान - गुणाधान - भूषण न्यासनिर्मितम् । येत् तु शब्दस्य वैचित्र्यं तत् पुरः प्रथयिष्यते ॥ ७ ॥ पुर इति स्वस्व प्रस्तावे प्रथयिष्यते कथयिष्यत इति ॥ ७ ॥ अथ बहुप्रकारं शब्दस्य वैचित्र्यमाह-तस्यान्यदपि वैचित्र्यमस्ति प्रकृतिसम्भवम् । 1 तस्य शब्दस्य प्रकृतिसम्भूतं वैचित्र्यमन्यदप्यस्ति । वैचित्र्यमित्युत्तरत्रापि सर्वत्र योज्यम् । यथा *" रहकेलिद्दियनियर्संणकर किसलयरुद्ध नयणजुअलस्स । रुस त अनयणं पव्वइपरिचुंविअं जयइ || १० ॥ 19 अत्र न नन्दतीत्याद्युक्तम्, किन्तु जयतीति इतरस्मान्नयनद्वयादुत्कर्षेण वर्तते लोकोत्तरेण प्रकारेण स्थगितत्वादिति जिरूपप्रकृतिजनितं वैचित्र्यम् । *रतिके लिहूत निवसना कर किसलयरुद्धनयनयुगलस्य | रुद्रस्य तृतीयनयनं पार्वती परिचुम्बितं जयति ॥ १ प. वाध्यांगं । २ प शब्दस्य, अ. शब्दगतस्य वै० । ३ व यत् पुनः शब्दवै० । ४ व नः वष्यति । ५ अ. ते अथ । ६ अ. • अंस० । ३ For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy