________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१६
अलङ्कारमहोदषौ
हिम- पयः- शङ्खाद्याश्रितेषु तत्त्ववृत्यैव भिन्नेषु शुक्लादिषु गुड-तन्दुलादिपाकादिषु च प्रतिक्षणं भिद्यमानेषु डित्थाद्यर्थेषु बाल-वृद्ध-शुकसारिकाद्युच्चरितेषु डित्यादिशब्देषु च यद्वशादनुवृत्तप्रत्ययोत्पत्तिस्तां शुक्लत्वादिकां पाकत्वादिकां डित्थत्वादिकां च जातिमेव शब्दार्थमाहुर्मीमांसकाः ।
तथा
केचिज्जातिमतीं व्यक्तिम्
-
Acharya Shri Kailassagarsuri Gyanmandir
जातेर्वाह - दोहादावनुपयुज्यमानत्वात् केवलव्यक्तेः पूर्वमेव दूषितत्वाच जातिमतीं व्यक्तिमेव शब्दार्थं वदन्ति नैयायिकाः ।
तथा
अपोहमपरे पुनः ॥ ४ ॥
अपरे बौद्धाः पुनर्जातेर्विचारासहत्वात् व्यक्तौ तु क्षणिकत्वेन सङ्केतस्थ कर्तुमशक्यत्वाञ्चापोहमगोव्यावृत्तो गौरित्यादिरूपामितरव्यावृत्तिमेव शब्दार्थ - मिच्छन्तीति ॥ ४ ॥
अथ सर्वमताभ्युपगमेनाह -
तैरुक्तो यः स मुख्योऽर्थः शब्दस्तस्याभिधायकः । व्यापारस्त्वाभिधैवास्य तमर्थमभिधास्यतेः ॥ ५॥
तैर्महाभाष्यकारादिभिः । तमर्थेति तं मुख्यमर्थमभिधातुकामस्यास्य शब्दस्याभिधेति नाम्ना व्यापारः क्रिया । न हि क्रियां विना कर्त्ता कर्म निर्मातुम इति ॥ ५ ॥
अथ सामान्यतः शब्दस्य स्वरूपमुक्त्वा व्यतिरेकोक्तिपूर्व काव्याङ्गं वैचित्र्यमुपदिशति
किन्त्वेकार्थप्रवृत्तेषु शब्देष्वन्येषु सत्स्वपि । अभीष्टार्थाभिधायी यस्तस्य वैचित्र्यचारुता ॥ ६ ॥
१ अ. ०कां डि० । २ प ०स्यतां । ३ प शब्दस्य सा० ।
For Private And Personal Use Only