________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शब्दवैचित्र्यवर्णनो नाम द्वितीयस्तरङ्गः। वस्तुधर्मः सिद्धः १ साध्यश्च २ । सिद्धोऽपि पदार्थस्य प्राणप्रदो विशेषाधानहेतुश्च । प्राणप्रदो जातिः । नहि जाति विना पदार्थः सत्तामात्रमप्यासादयति । यदुक्तं वाक्यपदीये-'गौः स्वरूपेण न गौ प्यगौर्गोत्वामिसम्बन्धात् तु गौः' इति द्वितीयो गुणः शुक्लादिनाहि लब्धसत्ताकं वस्तु विशेष्यते। साध्यः पूर्वापरीभूतावयवक्रियारूपः । डित्थादिशब्दानामन्त्यबुद्धिनिग्राह्यं संदृतक्रमं खरूपं वक्त्रा यदृच्छयो डिस्थादिष्वर्थेषूपाधित्वेन संनिवेश्यत इति स संज्ञारूपयदृच्छात्मक इति । 'गौः शुक्लश्चलति डिस्थ इत्यादौ चतुष्टयी शब्दानां प्रवृत्तिः इति महाभाष्यकारः । परमाणुत्वादीनां तु न जातित्वं पार्थिवत्वादिना परापरव्यवहारानुपपत्तेः । यदि हि परमाणुत्वं परं पार्थिवत्वमपरं तत् सर्वाऽपि पृथ्वी परमाणुरूपैव स्यात। यदि च पार्थिवत्वं परं परमाणुत्वमपरं तत् सर्वेऽपि परमाणवः पार्थिवा एव स्युरपरसामान्यव्यापकत्वात् परसामान्यस्येति । नापि गुणत्वं लब्धसत्ताकस्य वस्तुनो विशेषको गुण इति गुणलक्षणायोगात् । गुणस्य हि द्रव्यं समवायिकारणम् , गुणस्तु कार्य: । कारण-कार्ययोश्च पूर्वापरकालभावित्वं नियतमेव । तच्च नित्ययोः परमाणु-परमाणुत्वयोनोंपपद्यत एवति विशेषाधानहेतुत्वामावान गुणत्वमित्युभयभ्रंशे कणादमुनिना चतुविशतिगुणमध्येऽणु महद् दीर्घ इस्वं च परिमाणमित्यणुपरिमाणेतर्भावितत्वात् पारिभाषिकं गुणत्वम् । ननु 'नित्यमेकमनेकवृत्ति सामान्यम् ' इति सामान्यलक्षणादयं गौरयं गौरित्यवृत्तप्रत्ययाच यथा गवादीनां जातिशब्दत्वं तथा सामान्यलक्षणादयं शुक्लोऽयं शुक्ल इत्याद्यनुवृत्तप्रत्ययाच शुक्लादीनां कथं न जातिशब्दत्वम् । अत्रोच्यते -गुण-क्रिया-यदृच्छानां वस्तुत एकव्यक्तिकत्वादेकस्वरूपाणामप्याश्रयभेदाद् भेद एव लक्ष्यते, न तु वास्तवो भेदः। यथैकस्य मुखस्य खग-मुकुर-तैलाद्यालम्बनभेदादिति । सामान्यलक्षणायोगात् पूर्ववैयाकरणैर्जात्याद्यर्थचतुष्टये शब्दः सङ्केतितः, तद्वशेन शब्दस्य चतुर्की प्रवृत्तिर्दश्यते । जातिगुणः क्रिया द्रव्यं चेति ॥३॥
. अथ मतान्तराण्याहशब्दस्य जातिमेवार्थमाहुरन्ये विपश्चितः। १ व. भूतक्रि० । २ व. वक्तृयदृच्छ्योर्डि० । ३ अ. व्यापिर्डि० । ४ म. तुमा० । ५ अ. तिकागु० । ६ व. °नुप्रा० । ७ प. वृत्तिक ।
For Private And Personal Use Only