SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथ द्वितीयस्तरङ्गः। --**अथ पूर्वोक्तस्मारणपूर्वमुत्तराभिधेयमुपक्रमते-- पूर्व शब्दार्थवैचित्र्ययोगः काव्यमुदीरितम् । तत्र धीमञ्चमत्कारि शब्दवैचित्र्यमुच्यते ॥ १ ॥ तदेव हि वैचित्र्यं यत्र धीमन्तश्चित्रीयन्ते इति ।। १ ।। प्रथमं तावत् शब्दस्वरूपमाह-- शब्दः स्याद् वाचकश्चौपचारिको व्यअकस्तथा । अथैर्वाच्यादिभिस्तत्र तावनिर्वच्मि वाचकम् ॥ २॥ वाच्यादिमिरथैर्वाच्योपचरित-व्यङ्ग्यहेतुभिर्वाचकश्चकारस्य भिमक्रमत्वादौपचारिकश्च तथा व्यञ्जक इति त्रयः शब्दाः। तत्र तेषु मध्ये वाचकं विचारयामीति ॥ २॥ अथ यत् प्रतिज्ञातं तबिवाहयति-- शब्दः सङ्केतितः पूर्जात्याद्यर्थचतुष्टये । तद्वशाद् दृश्यते तस्य चतुद्धैव प्रवर्तनम् ॥ ३॥ यद्यप्यर्थक्रियाकारितया सङ्केतयोग्या व्यक्तिरेव, तथापि व्यक्तीनामानन्त्याव प्रत्यहं नवनवोत्पादेन व्यभिचाराच्च तत्र सङ्केतः कर्तुं न युज्यते । तथा यदि व्यक्तावेव सङ्केत: स्यात् , तदा गौः शुक्लश्चलतीत्यादीनां विषयविभागो न प्रामोति । तावद्विशेषणविशिष्टाया एव गोव्यक्तेः सङ्केतपात्रीकृतत्वेनैकेनैव शब्देनाभिधीयमानत्वादन्यथा शृङ्ग-सास्नादिवैशिष्ट्येऽपि पृथक् पृथक् शब्दाभिधेयत्वं स्यात् । यदि च विषयविभागं विनाऽप्येकस्मिन्नेव विषये युगपद् भूयसा शब्दानां प्रवृत्तिा स्यात् तदानीमिन्द्रः शक्रः पुरन्दर इत्यादयोऽपि शब्दाः समकालमेकस्मिमेव विषये प्रवर्तेरन् । तस्मान व्यक्तौ सङ्केतः, किन्तु तदुपाधावेवेत्युपपन्नम् । उपाधिश्व वस्तुधर्मो वक्त्यदृच्छासनिवेशितश्च । १ व. ०पूर्वमुप० । २ व. शब्दरू० । ३ अ. त्यादौ वि० । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy