________________
Shri Mahavir Jain Aradhana Kendra
१२
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलङ्कारमहोदधौ
सर्व साध्वथवा रुणत्सि चिरहक्षामस्य रामस्य चेत् 'त्वद्दन्ताङ्कितवालिकक्षरुधिरक्लिन्नाग्रपुङ्खं शरम् ॥ ५ ॥
"
इयं रावणं प्रति रामस्योक्तिः । अत्र दन्ताङ्कितपदेन वालिनां तस्य विजयः, कक्षप्रक्षेपणं तथैव चतुरम्भोधिभ्रमणं कृपयैव च परित्यागस्तत्राप्रती कारस्तथाप्यमिमानदर्प इत्यादि । रामस्येति पदेन जगत्प्रतीतेनापि रामेण स्वयमुक्तेनानुपयुज्यमानत्वाद् बाधितस्वार्थेन पौरुषोत्कर्ष लक्षयता भार्गवप्रत्यादेशादि, येन त्वं बद्धः सोऽपि वाली मया हत इत्यादि च । विरहक्षामस्य रामस्येत्यनेन चासतां पुष्टाङ्गस्य कृशस्यापि दुर्निवारा एव मम शरा इत्यादि व्यज्यते ॥ १५ ॥ अथ गुणीभूतव्यङ्ग्यमाह -
तयोर्यत्रान्यवैचित्र्याद व्यञ्जकत्वस्य गौणता । तन्मध्यमं गुणीभूतव्यङ्ग्यं काव्यं निगद्यते ॥ १६ ॥
तत् काव्यं मध्यमं गुणीभूतव्यङ्गयमिति कथ्यते । यस्मिन् शब्दार्थयोरन्येषां निर्दोषत्वादीनां वैचित्र्याद् व्यञ्जनव्यापारस्य गुणीभावः । यथा-
*" वाणीरकुडंगोड्डीणसउण कोलाहलं सुणंतीए । घरकम्मवावडाए वहुए सीअंति अंगाई || ६ || " अत्र वाच्यादङ्गसादाद् रसविशेषपरत्वेन सुन्दरात् स सङ्केतस्थानमागच्छदहं तु न गतेति व्यङ्ग्यमसुन्दरमित्यस्य गुणीभूतत्वम् ।। १६ ।।
अथावरं काव्यमाह -
यत्र व्यञ्जनवैचित्र्यचारिमा कोऽपि नेक्ष्यते ।
Paroraft सदाऽध्वन्यैस्तत् काव्यमवरं स्मृतम् ॥१७॥
काव्यमार्गे सततपान्थैस्तत् काव्यमधममाम्नातम् । यस्मिन् व्यञ्जनव्यापाररूपविचित्रत्वसौन्दर्य किमपि नावलोक्यते । अन्यन्निर्दोषत्वादिवैचित्र्यं त्वस्त्येव । तच्च द्विविधं सशब्दगुणालङ्कारं सार्थगुणालङ्कारं चेति । तत्राद्यं यथा
* वानीरकुडङ्गोडीनशकुन कोलाहलं शृण्वत्याः । गृहकर्मव्यावृत्ताया वध्वाः सीदन्त्यङ्गानि ॥
१ अ. तद्द० । प. ०ना वि० । २ प ०क्षामस्येत्य०, अ. ०क्षामस्य चे० । ३ प ०स्यापि । ४ अ.प. सदगु० । ५ प सीयंति । ६ प कोपि नेष्यते । ७ अ श्रुतं ।
For Private And Personal Use Only