________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यस्य प्रयोजन-कारणस्वरूपभेदनिर्णयो नाम प्रथमस्तरङ्गः। ११ स्फुटेत्यभिधानाभिरलकार नाम नास्त्येव काव्यम् । कचित् पुनः स्फुटत्वमलङ्कारस्य क्वाप्यस्फुटत्वम् । यत्राप्यस्फुटत्वं तत्रापि चमत्कारिण्यपरत्रये निर्दोपत्व-सगुणत्व-सव्यञ्जनत्वलक्षणे सति न काव्यता परिहीयते । यथा"गेयं श्रोत्रैकपेयं बकुलवलयितं मल्लिकादाम दच
प्रीतिः कर्पूरपूरः सुरयुवतिजितो वारसारङ्गनेत्राः । अस्त्येवैतत् समस्तं तदपि वसुमतीवर्णिनीकर्णपूर !
प्रेक्ष्यन्ते ते विपक्षा भृशमरतिपरीभोगदौस्थित्यमाजः ॥ ४ ॥" अत्र गेयादीनां रतिकारणानामरतिरूपविरुद्धकार्योत्पादेनारतिरूपस्य कार्यस्य गेयादिविरुद्धकारणसमावेशेन च सन्देहसङ्करे विशेषोक्ति-विमावनयोरस्फुटत्वम् ॥ १४ ॥
अथ ध्वनिकाव्यमाहवाच्यवाचकयोरन्यद् विचित्रत्वं तिरो दधत् । व्यञ्जकत्वं स्फुरेद् यत्र तत् काव्यं ध्वनिरुत्तमम् ॥१५॥
यत्र यस्मिन् शब्दार्थयोरन्यनिर्दोषत्व-सगुणत्व-सालङ्कारत्वरूपं वैचित्र्यं तिरस्कुर्वाणो व्यञ्जकीभावः प्रदीप्येत तत् काव्यमुत्तमं ध्वनिरित्युच्यते । यतः उच्चरितप्रध्वंसिनां वर्णानामर्थप्रत्यायकत्वाभावात् । संइतक्रममन्त्यबुद्धिनिग्राद्य ध्वनिसंज्ञं शब्दब्रह्मापरनामधेयं घण्टानुरणनप्रतिमं तदीयं स्वरूपमेव किश्चिदर्थप्रतीति जनयति । तच्च स्फुटत्यर्थोऽस्मादिति स्फोट इत्यभिधीयते । स च शन्देनैव व्यज्यते इति तद्व्यञ्जनक्षमः शब्दोऽप्युपचाराद् वैयाकरणैर्ध्वनिरित्युच्यते । ततस्तन्मतानुगामिभिरानन्दवर्द्धनाद्यैरपि तिरस्कृतवाच्य-वाचकमहिम्नो व्य
ग्यार्थस्य व्यञ्जनसमर्थ शब्दार्थद्वितयमपि व्यञ्जकत्वसामान्यात् ध्वनिरिति व्यपदिश्यते सर्वोत्तमत्वं च लभते । यथा" वल्मीका किमुतोद्धृतो गिरिरियन कस्य स्पृशेदाशयं ?
त्रैलोक्यं तपसा जितं यदि मदो दोष्णां किमेतावता ।
१२० त्वं य० । २ व. तथापि । ३ प. न । ४ अ. ०द्वय० । ५ व. लभ्यते । ६ व. •तोडतो ।
For Private And Personal Use Only