________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलङ्कारमहोदधौ अनारोचकि-सतृणाभ्यवहारिशब्दावुपचरितार्थों क्रमाद् विचारचतुरान् विचार-रहितांश्च लक्षयतः । तेषु द्वितयेषु मध्ये पूर्वे ये केचिदैरोचकिनस्ते विवेकित्वाद् विचारकनिष्ठत्वादेतां पूर्वोक्तां शिक्षामईन्ति तद्योग्या भवन्ति, नापरे न वितरे सतृणाभ्यवहारिणस्तद्विपरीतत्वादिति ॥ ११ ॥
अथ काव्यशरीरं निर्दिशतिकाव्यं शब्दार्थवैचित्र्ययोगः सहृदयप्रियः । यस्मिन्नदोषत्व-गुणालङ्कृति-ध्वनयः स्थिताः ॥ १२ ॥ काव्यं निपुणकविकर्म । किमित्याह शब्दार्थवैचित्र्ययोगः । शब्दो वाचकोऽर्थश्च वाच्यस्तयोर्वैचित्र्यं विच्छिचिवैशिष्ट्यं तच्च प्रत्येकमभिसम्बध्यते । शब्दवैचित्र्यमर्थवैचित्र्यं चेति तयोर्योगः सम्पर्कः । न खलु शब्दार्थावेव काव्यम् , गोरपत्यं बलीवर्द इत्यादेरापि काव्यत्वप्रसङ्गात् । नाप्येकवैचित्र्यमपि चमत्करोति, पुरो दूषयिष्यमाणत्वात् । तस्मादुभयवैचित्र्ययोग एव काव्यम् । सोऽपि सहृदयप्रियः। प्रीणातीति प्रियः सहृदयानां प्रियः सहृदयाहादक इत्यर्थः । नहि वैचित्र्ययोगेन तद्विदः प्रीयन्ते । अाभिधेयतया वैचित्र्यस्य हेतूनाह-यस्मिनित्यादिः । यस्मिन् यत्र शब्दार्थयोर्वैचित्र्येऽदोषत्वं गुणा अलङ्कतयो ध्वनिश्च वक्ष्यमाणाः स्थिताः कृतावस्थानांस्तैरेव च शब्दार्थयोवैचित्र्यमुन्मील्यत इति ॥१२॥
___ कुतस्तदुन्मील्यत इत्याहनिर्दोषः सगुणः सालङ्कतः सव्यञ्जनस्तथा।
शब्दश्चार्थश्च वैचित्र्यपात्रतां हि विगाहते ॥ १३ ॥ हिर्यस्मात् कारणानिर्दोषत्वाद्यलङ्कृत एव वाचको वाच्यश्च विचित्रता चुम्बतीति । दोषाभावादयो वैचित्र्यहेतव इति स्थितम् ॥ १३ ॥
अथ काव्यत्वादपवादमाहस्फुटालङ्कारवैचित्र्यवञ्चितोऽप्यपरत्रये ।
चमत्कारिणि काव्यत्वं न परिम्लायति कचित् ॥ १४ ॥ १. व्यति । २ अ. ०फेचना० । ३ व. वैच्छि० । ४ अ. काव्यं सोऽपि । ५ अ. व्यः सः । ६ व. प्रतीयन्ते । ७ अ. व्याधे०८ व. ०त्र्यो । ९ व. स्थानस्थरे । १० अ. स्तदित्या० । ११ प. व. •ङ्गतिः । १२ व. ०र्षस्य ।
For Private And Personal Use Only