________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यस्य प्रयोजन - कारणस्वरूपभेदनिर्णयो नाम प्रथमस्तरङ्गः ।
जातेर्यथा - मालत्या वसन्ते, पुष्पफलस्यं चन्दनंद्रुमे, फलस्याशोके । द्रव्यस्य यथाकृष्णपक्षे सत्या अपि ज्योत्स्नायाः, शुक्लपक्षे त्वन्धकारस्य । गुणस्य यथा - कुन्दकुडलानां कामिदन्तानां च रक्तत्वस्य, कमलादीनां च हरितत्वस्य, प्रियङ्गुपुष्पाणां च पीतत्वस्य । क्रियाया यथा - दिवा नीलोत्पलानां विकाशस्य, शेफालिकाकुसुमानां विसस्य च । तथा बन्धोऽन्यस्यासतोऽपि हि । अन्यस्य जात्यादेरेवासतोऽपि ह्यविद्यमानस्यापि बन्धो गुम्फनम् । तत्र जातेर्यथा-नदीषु पद्म- नीलोत्पलादीनाम्, जलाशयमात्रेऽपि हंसादीनाम्, यत्र तत्र पर्वतेऽपि सुवर्ण - रत्नादीनां च । द्रव्यस्य यथा - तमसि मुष्टिग्राह्यत्वस्य सूचीभेद्यत्वस्य च, ज्योत्स्नायां च कुम्भोपवाह्यत्वादेः । गुणस्य यथा - यशो - हासादौ शौक्ल्यस्य, अयशः - पापादौ कार्ण्यस्य, क्रोधानुरागयो रक्तत्वस्य च । क्रियाया यथा - चकोरेषु चन्द्रिकापानस्य, चक्रवाकमिथुनेषु निशि भिन्नतटाश्रयणस्य च । नियमो जात्यादेरेवैकत्रावधारणम् । जातेर्यथा - समुद्रेष्वेव मकराः, ताम्रपर्ण्यमेव मौक्तिकानि । द्रव्यस्य यथा - मलय एव चन्दनस्थानम्, हिमवानेव भूर्जोत्पत्तिपदम् । गुणस्य यथा - सामान्योपादाने माणिक्यानां शोणतैव, पुष्पाणां शुक्लतैव, मेघानां कृष्णतैव । क्रियाया यथाकोकिलरुतं वसन्त एव, मयूराणां वर्षास्वेव विरुतं नृत्तं चेति । अथवा नियमः कविसमयः । यथा - कृष्ण - नीलयोः, कृष्ण - हरितयोः, कृष्ण - श्यामयोः, पीत - रक्तयोः, शुक्ल - गौरयोः चन्द्रे शश-मृगयोः, कामकेतने मकर - मत्स्ययोः, अत्रिनेत्र - समुद्रोत्पन्नयोश्चन्द्रयोः, द्वादशानामप्यादित्यानाम्, कमला- सम्पदोः, क्षीर- क्षारसमुद्रयोः, दैत्य - दानवासुराणां चैक्यम् । तथा चक्षुरादेरनेकवर्णोपवर्णनं बहुकालजन्मनोऽपि शिवचन्द्रमेंसो बालत्वम्, कामस्य मूर्त्तत्वममूर्त्तत्वं चेत्यादिः । छायाद्यपहारादयस्तथा । छायायाः परकाव्यात् सादृश्य मात्रस्यादिशब्दात् पद - पादादीनां चापहारः समुपजीवनम् । पुनरादिपदात् समस्यापूरणाद्या शिक्षा । तथेति समुच्चये इति ॥ १० ॥
"
अथ शिक्षाधिकारिणः कथयति
केऽप्यरोचकिनः केऽपि सतृणाभ्यवहारिणः । तेषु पूर्वे विवेकित्वादेतामर्हन्ति नापरे ॥ ११ ॥
१ व. पुष्पफलस्याशोके । २ अ. चंदने हु० । ३ व. अ. द्रव्यस्य यथा कुन्द० । ४ व. हरितत्वस्य क्रि० । ५ प. यथा, व. तथा बन्धोऽन्यस्य जा० । ६ व. ० लानां । ७ अ. ०लाय० । ८ अ. रत्नसुवर्णादी० । ९ व. ० त्वस्यापि शू० । १० अ ०पशु० । ११ व. ० चक्षु० । १२ अ. ०स्यं ० चंद्रस्य । १३ प. चेति ।
२
For Private And Personal Use Only